Students can Download 2nd PUC Sanskrit Previous Year Question Paper June 2016, Karnataka 2nd PUC Sanskrit Model Question Papers with Answers help you to revise complete Syllabus and score more marks in your examinations.
Karnataka 2nd PUC Sanskrit Previous Year Question Paper June 2016
अङ्काः 100
समय : 3 घण्टा 15 निमेषाः।
I. एकवाक्येन संस्कृतभाषया उत्तरं लिखत। (10 × 1 = 10)
प्रश्न 1.
कः भरतः इति उच्यते?
उत्तरम्
मनुः भरतः इति उच्यते ।
प्रश्न 2.
विक्रमादित्यः कथं देशान्तरं निर्गतः?
उत्तरम्
विक्रमादित्यः योगिवेषेण देशान्तरं निर्गतः ।
प्रश्न 3.
परिव्राजकस्य अवस्थां दृष्ट्वा कः जहासः?
उत्तरम्
परिव्राजकस्य अवस्थां दृष्ट्वा सकलो जनः जहास ।।
प्रश्न 4.
“विधिना दर्शितं प्रभुत्वम्’ इति का वदति?
उत्तरम्
“विधिना दर्शितं प्रभुत्वम्’ इति शकुन्तला वदति ।
प्रश्न 5.
बालिकायाः हस्तात् रोटिकाम् आकृष्य कः अधावत् ?
उत्तरम्
बालिकायाः हस्तात् रोटिकाम् आकृष्य अरण्यमार्जालः अधावत् ।
प्रश्न 6.
महाश्वेता स्नातुं कुत्र आगच्छति?
उत्तरम्
महाश्वेता स्नातुं अच्छोदसरः आगच्छति ।
प्रश्न 7.
‘सा’ शान्तिः कुत्र कार्य करोति?
उत्तरम्
‘सा’ शान्तिः उद्योगार्थं कार्यं करोति।
प्रश्न 8.
सुन्दरः किमर्थं नगरम् आगच्छति?
उत्तरम्
सुन्दरः गुरोः आशीर्वादः नगरम् आगच्छति ।
प्रश्न 9.
के धनमिच्छन्ति? उत्तरम् अधमाः धनमिच्छन्ति ।
प्रश्न 10.
कृष्णशास्त्रिणां माता का?
उत्तरम्
कृष्णशास्त्रिणां माता शङ्करम्मा
II. द्वित्रः वाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषावा वा उत्तरं लिखत। (पञ्चनामेव) (5 × 2 = 10)
प्रश्न 11.
पञ्चद्वीपानां नामानि लिखत ।
प्रश्न 12.
नगरवासिभिः जनैः राक्षसः किम् उक्तः ?
प्रश्न 13.
प्रव्राजकः निजान् अनुचरान् किम् उवाच ?
प्रश्न 14.
भारतसर्वकारः राणाप्रतापाय कथं गौरवम् असूचयत् ?
प्रश्न 15.
सुन्दरः किमर्थं संरक्ष्यः ?
प्रश्न 16.
शास्त्रिणाम् औदार्यम् ।
प्रश्न 17.
कोषः किमर्थं संरक्ष्यः ?
III. पाठनाम उल्लिख्य श्लोकानाम् अनुवाद कन्नड-आङ्ग्लभाषया वा कुरुत। (त्रयाणाम्) (3 × 3 = 9)
प्रश्न 18.
ज्ञेयं तद्भारतं वर्ष सर्वकर्मफलप्रदम् ।
अत्र कर्माणि कुर्वन्ति त्रिविधानि तु नारद ॥
प्रश्न 19.
प्रविष्टो जातु भिक्षार्थमेकस्य वणिजो गृहे ।
स ददर्श शुभां कन्यां भिक्षामादाय निर्गताम् ।।
प्रश्न 20.
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् ।
बलवत्तु दूयमानं प्रत्याययतीव मे हृदयम् ।।
प्रश्न 21.
धन्योऽस्मि गमनात्पूर्वमीदृशी सम्पदागता ।
विना तु गुरुशुश्रूषां नान्यद्भाव्यं परं मम ॥
प्रश्न 22.
कामक्रोधौ तथा लोभं स्वादं शृङ्गारकौतुके ।
अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत् ॥
IV. पाठनाम उल्लिख्य कः कं प्रति अवदत् ? इति संस्कृतभाषया लिखत । (चतुर्णामेव) (4 × 2 = 8)
प्रश्न 23.
यं कमेवं मा भक्षय ।
प्रश्न 24.
अथ लोकानुग्रहाय कुशली काश्यपः।
प्रश्न 25.
कुत्रापि गत्वा धनं संग्रहिष्यामि ।
प्रश्न 26.
किं माम् अन्यथा सम्भावयसि ।
प्रश्न 27.
दृढीक्रियतां चेतः ।
प्रश्न 28.
सः यत्रकुत्रापि भवतु कालेज आनेतव्यः एव ।
V. दशवाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा उत्तरं लिखत । (पञ्चानामेव) (5 × 5 = 25)
प्रश्न 29.
विक्रमादित्यस्य परोपकारगुणं वर्णयत ।
प्रश्न 30.
प्रव्राजकः
प्रश्न 31.
शारिव-दुष्यन्तयोः संवादः ।
प्रश्न 32.
भामाशाहस्य राजभक्तिः ।
प्रश्न 33.
पुण्डरीकस्य जन्मवृत्तान्तं लिखत ।
प्रश्न 34.
कर्णशापप्रसङ्गः ।
प्रश्न 35.
सा शान्तिः ।
प्रश्न 36.
शास्त्रिणाम् शिष्यवात्सल्यम् ।
VI. मञ्जूषातः सूक्तपदं चित्वा रिक्तं स्थानं पूरयत। (4 × 1 = 4)
प्रश्न 37.
उत्तरं यत् समुद्रस्य …………. दक्षिणं च यत् । (हिमवत्)
प्रश्न 38.
अङ्गुलीयकशून्या मे ………… । (अङ्गुलिः)
प्रश्न 39.
…………. गन्धम् अभ्यजिध्रम् । (कुसुमः)
प्रश्न 40.
विद्या …………. रक्ष्यते । (योगेन)
(अङ्गुलिः, कुसुमः, हिमवत्, योगेन)
VII. संयोजयत। (4 × 1 = 4)
प्रश्न 41.
क – ख
(a) जाह्नवी – (i) सरस्वत्याः
(b) बिल्लाः – (ii) ज्ञानमवाप्नोति
(c) विलासमिव – (iii) गङ्गा
(d) श्रुत्वा – (iv) योद्धारः
उत्तरम्
(iii) गङ्गा
(iv) योद्धारः
(i) सरस्वत्याः
(ii) ज्ञानमवाप्नोति
VIII. रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत । (त्रयाणामेव) (3 × 1 =3)
प्रश्न 42.
पुत्थलिका भोजराजं प्रति अब्रवीत् ।
उत्तरम्
कं ।
प्रश्न 43.
अनुचराः प्रव्राजकस्य वचनम् अपालयन् ।
उत्तरम्
कस्य ।
प्रश्न 44.
मेवाड इति स्थलं राजस्थाने प्रसिद्धमासीत् ।
उत्तरम्
कुत्र ।
प्रश्न 45.
शान्तिः धनं न स्वीचकार ।
उत्तरम्
किं ।
प्रश्न 46.
विमर्शकेन कृतीनामध्ययनं सम्यक् कर्तव्यम् ।
उत्तरम्
केन ।
IX. यथानिर्देशं कुरुत । (चतुर्णामेव) (4 × 3 = 12)
प्रश्न 47.
सन्धिं विभजत /योजयत। (त्रयाणामेव)
भीषणाकृतिः, सर्वोऽपि
ततः + ततः, तथा + एव, हि + अकाले
उत्तरम्
भीषण + आकृतिः, सर्वो + अपि, ततस्ततः, तथैव, ह्यकाले
प्रश्न 48.
विग्रहवाक्यं / समस्तपदं लिखत । (त्रयाणामेव)
पुराणभारतम्, राजपुत्रः
अरण्यस्य मार्जालः, मनुजः पशु इव, नराः एव विग्रहाः
उत्तरम्
पुराणेषु वर्णितं भारतम्, राज्ञः पुत्रः, अरण्यमार्जालः, मनुजपशुः, नरविग्रहाः
प्रश्न 49.
लिङ्ग-विभक्ति-वचनानि लिखत । (द्वयोरेव)
वाचा, वचनात्, भगवति, पादयोः ।
उत्तरम्
वाचा – स्त्रीलिङ्गः, तृतीया विभक्तिः, एकवचनम्
वचनात् – नपुंसकलिङ्गः, पञ्चमी विभक्तिः, एकवचनम्
भगवति – पुंलिङ्गः, सप्तमी विभक्तिः, एकवचनम्
पादयोः – पुंलिङ्गः, षष्ठी विभक्तिः, द्विवचनम्
प्रश्न 50.
लकार-पुरुष-वचनानि लिखत । (द्वयोरेव)
लभते, निबोधत, अपनेष्यामि, ददर्श
उत्तरम्
लभते – लट्, प्रथम, एक
निबोधत – लोट्, मध्यम, बहुवचनम्
अपनेष्यामि – लुट्, उत्तम, बहुवचनम्
श्रुणु – लोट्, मध्यम, एकवचनम्
ददर्श – लिट्, प्रथम, एक
प्रश्न 51.
पदपरिचयं कुरुत । (त्रयाणामेन)
त्यक्त्वा, स्मृतम्, प्रवेषयितुम्, निरीक्ष्य, पतन्
उत्तरम्
त्यक्त्वा – क्त्वान्तः
स्मृतम् – क्त प्रत्ययान्तः भूतकृदन्तः
प्रवेषयितुम् – तुमुन्नान्तः
निरीक्ष्य – ल्यबन्तः
पतन् – शतृ प्रत्ययान्तः वर्तमानः कृदन्तः ।
प्रश्न 52.
प्रयोगं परिवर्तयत ।
वित्तेन धर्मः रक्ष्यते ।
उत्तरम्
वित्तं धर्मं रक्षति ।
अथवा
नरैः कर्माणि क्रियन्ते ।
उत्तरम्
नराः कर्माणि कुर्वन्ति ।
प्रश्न 53.
अलङ्कारं सलक्षणं निर्दिशत ।
मध्ये तपोधनानां किसलयमिव – पाण्डुपत्राणाम् ।
अथवा
अज्ञातहृदयेष्वेव वैरी भवति सौहृदम् ।
प्रश्न 54.
कन्नड भाषया-आङ्ग्लभाषया वा अनुवदत।
क्रीडा मानवस्य नितराम् आवश्यकी । क्रीडया शक्तिः वर्धते । उल्लासः उत्पद्यते । आरोग्यं जायते। मनः विकसति। जीवनोत्साहः एधते । एकताभावः सम्पद्यते । मैत्री विस्तारं गच्छति, अथ खलु ज्येष्ठाः एक घण्टापर्यन्तं तुल्यसीलवयोभिः क्रीडितव्यमिति उपदिशन्ति ।
प्रश्न 55.
संस्कृतभाषया अनुवदत।
Once the sage Vishwamitra came to the court of the king Dasharatha. He requested to send the boys Rama and Lakshmana to protect his sacrifice. Dasharatha felt sad due to affection towards his children. Vasishtha, the preceptor of the family, advised Dasharatha to fulfil Vishwamitra’s request. Dasharatha sent Rama and Lakshmana for the welfare of the world.
प्रश्न 56.
इमं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत । (5 × 1 = 5)
ध्रुवः उत्तानपादस्य पुत्रः। तस्य मातुः नाम सुनीति इति । राज्ञः प्रियपत्नी सुरूचिः। एकदा ध्रुवः पितुः उत्सङ्गे उपवेष्टुम् पितुः समीपं गतवान् । तदा सुरूचिः कुपिता अभवत् । दुःखेन ध्रुवः स्वमातरं अवदत् – “नारायणं पूजयित्वा ध्रुवं स्थानं सम्पादयिष्यामि” इति। नारदमहर्षेः उपदेशं अनुसृत्य तपश्चरति। तस्य तपसा तुष्टः नारायणः तस्मै ध्रुवपदं अनुगृहीतवान् ।
प्रश्नाः
1. ध्रुवः कस्य पुत्रः ?
उत्तरम्
उत्तानपादस्य
2. उत्तानपादस्य प्रिय पत्नी का?
उत्तरम्
सुरुचिः
3. ध्रुवः स्वमातरं किं अवदत् ?
उत्तरम्
‘नारायणं पूजयित्वा ध्रुवं स्थानं सम्पादयिष्यामि ।
4. ध्रुवः कस्य उपदेशं अनुसृत्य तपश्चरति ।
उत्तरम्
नारदमहर्षेः ।
5. तुष्टः नारायणः तस्मै किं अनुगृहीतवान् ?
उत्तरम्
ध्रुवपदं ।
अथवा धनं प्रेषयितुं पितरं पत्रं लिखत ।