2nd PUC Sanskrit Workbook Answers अर्थग्रहणम्

Students can Download Sanskrit Vyakaran अर्थग्रहणम् 2nd PUC Sanskrit Textbook Answers, helps you to revise complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Workbook Answers Vyakaran अर्थग्रहणम्

1. इमं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत।
पातालस्य राजा बलिः महान् भगवद्भक्तः आसीत्। कदाचित् कृष्णः युधिष्ठिरेण सह तस्य प्रासादम् अगच्छत्। दैत्यानां राजा कृष्णं सत्कृत्य ‘अयमपरः महाशयः कः?’ इति अपृच्छत्। तदा भगवान् – ‘अयं भारतदेशस्य महाचक्रवर्ती युधिष्ठिरः, भूलोके महादाता च। अस्य प्रासादात् न कोऽपि याचकः निराशः गच्छति’ इति अवदत् । बलिः इदं श्रुत्वा स्मित्वा – “स्वामिन्, यदा अहं राजा आसं तदा भिक्षुक एव नासीत्” इति विज्ञापयामास ।
प्रश्नः
1) बलिः कीदृशः आसीत्?
2) कृष्णः केन सह प्रासादम् अगच्छत?
3) कृष्णं सत्कृत्य बलिः किमपृच्छत्?
4) कृष्णः युधिष्ठिरं कथं परिचाययति?
5) बलिः स्मित्वा किं विज्ञापयामास?
उत्तरः
1) बलिः महान् भगवद्भक्तः आसीत् ।
2) कृष्णः युधिष्ठिरेण सह तस्य प्रासादम् अगच्छत् ।
3) कृष्णं सत्कृत्य बलिः – ‘अयमपरः महाशयः कः?’ इति अपृच्छत् ।
4) कृष्णः – ‘अयं भारतदेशस्य महाचक्रवर्ती युधिष्ठिरः, भूलोके महादाता च। अस्य प्रासादात् न कोऽपि याचकः निराशः गच्छति’ इति युधिष्ठिरं परिचाययति।
5) बलिः स्मित्वा – “स्वामिन्, यदा अहं राजा आसं तदा भिक्षुक एव नासीत्” इति
विज्ञापयामास।

KSEEB Solutions

2. इमं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत।
आसीत् कश्चित् बालकः। सः एकम् आरामं गत्वा तत्र एकस्मिन् आम्रवृक्षे मनोहरं फलं दृष्ट्वा तत् अपचेतुम् ऐच्छत्। परन्तु तं वृक्षं परितः बहवः कण्टकिनः गुल्माः आसन्। तेभ्यः भीत्वा फलम् अनपचित्य गृहं गतः। तदा अन्यः बालकः तत् फलं दृष्ट्वा परिगतेभ्यः कण्टकिभ्यः गुल्मेभ्यः अभीत्वा वृक्षम् आरुह्य फलमपचित्य भक्षयामास। अतः धैर्यवतो भाग्यम् उपैति।
प्रश्नः
1) बालकः आरामं गत्वा कि कर्तुम् ऐच्छत्?
2) वृक्षं परितः के आसन?
3) गुल्मेभ्यः भीतः बालकः किम् अकरोत्?
4) अन्यः बालकः वृक्षमारुह्य किं चकार?
5) अस्याः कथायाः नीतिः का?
उत्तरः
1) बालकः आरामं गत्वा तत्र एकस्मिन् आम्रवृक्षे मनोहरं फलं दृष्ट्वा तत् अपचेतुम् ऐच्छत् ।
2) वृक्षं परितः बहवः कण्टकिनः गुल्माः आसन् ।
3) गुल्मेभ्यः भीतः बालकः फलम् अनपचित्य गृहं गतः।
4) अन्यः बालकः वृक्षमारुह्य फलमपचित्य भक्षयामास ।
5) ‘धैर्यवतो भाग्यम् उपैति’ इति अस्य कथायाः नीतिः।

KSEEB Solutions

3. इमं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत।
ऋतुराजो हि वसन्तः। निखिलमिदं जगत् चारुतरं सम्पद्यते वसन्ते। हेमन्ताक्लिष्टा चेयं वसुन्धरा पुनः नवीभवति। अहो रमणीयता किसलयानाम्! मधुरिमा पुष्पाणां, सरसता फलानाम्। सरोवरे कमलानि विकसन्ति। भ्रमराः गुञ्जन्ति। पञ्चमं कूजन्ति पिकाः। प्रसन्नं वहन्ति नद्यः। वायुः मन्दं मन्दं प्रयाति। प्रसन्ना प्रतिभाति दिकसम्पत्।
प्रश्न:
1) वसन्तः कः?
2) हेमन्ताक्लिष्टा का?
3) कमलानि कुत्र विकसन्ति?
4) पञ्चमं के कूजन्ति?
5) वायुः कथं प्रयाति?
उत्तरः
1) वसन्तः ऋतुराजः।
2) हेमन्ताक्लिष्टा वसुन्धरा।
3) कमलानि सरोवरे विकसन्ति।
4) पञ्चमं पिकाः कूजन्ति।
5) वायुः मन्दं मन्दं प्रयाति।

error: Content is protected !!