2nd PUC Sanskrit Previous Year Question Paper June 2019

Students can Download 2nd PUC Sanskrit Previous Year Question Paper June 2019, Karnataka 2nd PUC Sanskrit Model Question Papers with Answers help you to revise complete Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Previous Year Question Paper June 2019

अङ्काः 100
समय : 3 घण्टा 15 निमेषाः।

I. एकवाक्येन संस्कृतभाषया उत्तरं लिखत। (10 × 1 = 10)

प्रश्न 1.
अद्यापि देवाः कुत्र जन्म इच्छन्ति?
उत्तरंः
अद्यापि देवाः भारतभूतले जन्म इच्छन्ति।

प्रश्न 2.
विक्रमादित्यकथां का कथयति?
उत्तरंः
विक्रमादित्यकथां पुत्थलिका कथयति।

प्रश्न 3.
राजपुत्रः मञ्जूषायाः अन्तः कं निक्षिपति?
उत्तरंः
राजपुत्रः मञ्जूषायाः अन्तः घोरं वानरं निक्षिपति।

KSEEB Solutions

प्रश्न 4.
शारद्वतः कः?
उत्तरंः
शारद्वतः कण्वाशिष्यः।

प्रश्न 5.
राणाप्रतापस्य पिता कः?
उत्तरंः
राणाप्रतापस्य पिता द्वितीय उदयसिंहः।

प्रश्न 6.
श्वेतकेतोः तनयः कः?
उत्तरंः
श्वेतकेतोः तनयः पुण्डरीकः।

प्रश्न 7.
सुन्दरः कियत् पर्यन्तं पठितवान्?
उत्तरंः
सुन्दरः दशमकक्ष्या पर्यन्तं पठितवान् ।

प्रश्न 8.
कर्णस्य रक्षाकवचं किम्?
उत्तरंः
गुरोः अनुग्रह एव कर्णस्य रक्षाकवचम् ।

प्रश्न 9.
कामधेनुगुणा का?
उत्तरंः
कामधेनुगुणा विद्या।

KSEEB Solutions

प्रश्न 10.
कृष्णशास्त्रिणाम् अध्यापकेषु एकस्य नाम लिखत।
उत्तरंः
कृष्णशास्त्रीणाम् अध्यापकेषु एकः प्रो ॥ बि.एम्.श्री. महोदयः।

II. द्वित्रैः वाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा उत्तरं लिखत। (पञ्चानामेव) (5 × 2 = 10)

प्रश्न 11.
भारतवर्षम् इति किमर्थं कथ्यते?
उत्तरंः
आदौ अत्र मनुः प्रजाः भरणं कृतवान् इति कारणतः तस्य ‘भरतः’ इति नाम कृतम्। भरतः शासनं कृतवान् इति तस्य ‘भारतवर्षम्’ इति नाम। निरुक्तवचनमपि इदमेव समर्थयति।

2nd PUC Sanskrit Previous Year Question Paper June 2019 1

Manu is called Bharata because of his (efficiency in the) maintenance and nourishment of the subjects. That sub-continent is thus remembered as Bharata in view of the expression defined thus.

प्रश्न 12.
विस्मितः राक्षसः विक्रमादित्यं किं पृच्छति?
उत्तरंः
विस्मितः राक्षसः पृच्छति – भो महासत्व! अत्र शिलायां यः उपविशति, स मदागमनात् पूर्वमेव म्रियते। त्वं पुनः महाधैर्यसम्पन्नः प्रहसितवदनो दृश्यसे। यस्य मरणकालः समायातः, तस्येन्द्रियाणि ग्लानिं प्राप्नुवन्ति । त्वं पुनः अधिकां कान्तिं प्राप्य प्रहससि। तर्हि कथय को भवान्? इति।

2nd PUC Sanskrit Previous Year Question Paper June 2019 2

The ogre, astonished to see Vikramaditya sitting happily on the rock, said: “From where have you come, virtuous man? Those who sit daily on this rock are dead with fright even before I arrive. But you are smiling. A man’s physical and mental abilities droop and decline when he is about to die, but you are radiant and beaming. So tell me who you are”.

KSEEB Solutions

प्रश्न 13.
कन्याविषये परिव्राट् वणिजः सकाशे किं वदति?
उत्तरंः
अद्भुतां रूपां कन्यां दृष्ट्वा कामवशगः शठः सः परिव्राट् वणिजः सकाशे तस्य कन्या दुर्लक्षणा। यदि तस्याः विवाहः भविष्यति तर्हि ससुतदारस्य तस्य वणिजः क्षयः भविष्यति। अथः कन्यकां उपरि न्यस्तदीपायां मञ्जूषायां निवेश्य गङ्गायां क्षिप्यताम् इति अवदत्।

2nd PUC Sanskrit Previous Year Question Paper June 2019 3

The monk, on seeing the daughter of the merchant, was smitten with love. He told the merchant that his daughter had inauspicious marks; if she were to marry, the merchant, his wife and son would perish. He asked the merchant to place his daughter in a box at night with a light on top and set it adrift on the Ganges.

प्रश्न 14.
बिल्लाः राणाप्रतापं कथं साहाय्यम् अकुर्वन्?
उत्तरंः
अरण्ये बिल्लाः न केवलं राजपूतमहिलानां बालानाञ्च रक्षणं संकष्टसमये कृतवन्तः, अपि च तान् खनिकूपेषु संरक्षितवन्तः। हल्दीघाटी समराङ्गणे बिल्लयुद्धवीराः न केवलं युद्धेन उपकृतवन्तः किन्तु गूढचारकृत्यं निर्वर्त्य पररहस्यं विघटयामासुः।

2nd PUC Sanskrit Previous Year Question Paper June 2019 4

The tribals called Billavas, in addition to protecting the Rajput women and children, kept them safely in the wells dug up for mining. In the battlefield at Haldighat, the Billavas not only assisted in the war, but also revealed the secrets of the enemies.

प्रश्न 15.
सुन्दरः किमर्थं स्वग्रामं त्यक्तवान्?
उत्तरंः
सुन्दरस्य पञ्च भ्रातरः द्वे भगिन्यौ च। उपरते च पितरि अल्पेन आदायेन स्वग्रहे जीवितुं तेन महान् क्लेशः अनुभूतः स्वके ग्रामे। अतः सः स्वग्रामं त्यक्तवान् ।

2nd PUC Sanskrit Previous Year Question Paper June 2019 5

Sundar had five brothers and two sisters. After their father’s death, they had to face great difficulties trying to eke out a living on the meagre income.

प्रश्न 16.
सत्पुरुषव्रतं किम्?
उत्तरंः
सूनृतावाक्, दया, दानं, दीनोपगतरक्षणं, सतां सङ्गः, साधुहितम् इति सत्पुरुषव्रतम् ।

2nd PUC Sanskrit Previous Year Question Paper June 2019 6

Sweet and truthful speech, kindness, charity, protection of the oppressed, helping those who seek refuge, and association with the virtuous – these are the praiseworthy practices of a pious person.

KSEEB Solutions

प्रश्न 17.
शास्त्रिणां पाठक्रमः।
उत्तरंः
कृष्णशास्त्री महोदय स्वगुरुत् अनुसृत्य आदर्शाध्याप्रकोऽभवत्। सः सर्वदा पाठस्य सिद्धतां सम्यक् कृत्वैव कक्ष्यां प्रविशति स्म। तस्य बोधनाक्रमः विद्यार्थिनः आकर्षति स्म।

2nd PUC Sanskrit Previous Year Question Paper June 2019 7

Krishna Sastri was an ideal teacher. He would always prepare well for his classes. His way of teaching attracted students towards him.

III. पाठनाम उल्लिख्य श्लोकानाम् अनुवादं कन्नड-आङ्ग्लभाषया वा कुरुत (त्रयाणामेव)- 3 x 3 = 9

प्रश्न 18.
अयं तु नवमस्तेषां द्वीपस्सागरसंवृतः।
योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरात्॥
उत्तरंः
तेषां सागरसंवृतः अयं तु नवमः द्वीपः। अयं द्वीपः तु दक्षिणोत्तरात् योजनानां सहस्रम्।

2nd PUC Sanskrit Previous Year Question Paper June 2019 8

This (Kamanika) is the ninth one. This island is surrounded by the ocean. From North to South this island measures 1000 yojanas (1 yojana = 12 kms).

प्रश्न 19.
प्रविष्टो जातु भिक्षार्थमेकस्य वणिजो गृहे।
स ददर्श शुभां कन्यां भिक्षामादाय निर्गताम् ॥
उत्तरंः
भिक्षार्थम् एकस्य वणिजः गृहे जातु प्रविष्टः। स भिक्षामादाय निर्गतां शुभां कन्यां ददर्श ।

2nd PUC Sanskrit Previous Year Question Paper June 2019 9

Once, when he entered a certain merchant’s house to beg, he saw a beautiful maiden coming out with alms in her hand.

प्रश्न 20.
कुतो धार्मक्रियाविघ्नः सतां रक्षितरि त्वयि।
तमस्तपति धर्मांशौ कथमाविर्भविष्यति ॥
उत्तरंः
2nd PUC Sanskrit Previous Year Question Paper June 2019 10
2nd PUC Sanskrit Previous Year Question Paper June 2019 11

प्रश्न 21.
विजृम्भते वेदसरस्वतीमयं तपोवनं निर्मलकर्म शोभितम् ।
विनीतशिष्यैरपनीतकल्मषैरधिष्ठितं विश्वगुणाभिरञ्जितम् ॥
उत्तरंः
.

प्रश्न 22.
कामक्रोधौ तथा लोभं स्वादं शृङ्गारकौतुके।
अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत् ॥
उत्तरंः
विद्यार्थी कामः, क्रोधश्च लोभ, स्वादं (रुचिः), शृङ्गारः, कौतुकं (कुतूहलम्), अतिनिद्रा, अतिसेवा च इति अष्ट वर्जयेत्।

2nd PUC Sanskrit Previous Year Question Paper June 2019 12

A student should completely renounce the following eight things – his lust, anger, greed, desire for sweets, sense of decorating the body, excessive curiosity, excessive sleep, and excessive endeavour for bodily maintenance.

KSEEB Solutions

IV. पाठनाम उल्लिख्य कः कं प्रति अवदत् इति संस्कृतभाषया लिखत (चतुर्णामेव) (4 × 2 = 8)

प्रश्न 23.
यं कमेवं मा भक्षय।
उत्तरंः
इदं वाक्यं ‘परेषामपि रक्ष जीवितम्’ इति पाठात् उद्धृतम्। वाक्यमिदं जनाः राक्षसं बकासुरं प्रति उक्तवन्तः।

प्रश्न 24.
सुखानि ते भर्तृकुलदेवताः वितरन्तु ।
उत्तरंः
इदं वाक्यं ‘शून्या मेऽङ्गुलि’ इति पाठात् उद्धृतम् । वाक्यमिदं गौतमी शकुन्तलां प्रति उक्तवती।

KSEEB Solutions

प्रश्न 25.
मम हस्ते प्रभूतं धनं विद्यते।
उत्तरंः
इदं वाक्यं ‘महाराणाप्रतापः’ इति पाठात् उद्धृतम् । वाक्यमिदं भामाशाहः राणाप्रतापं प्रति अवदत् ।

प्रश्न 26.
तथापि यदि कुतूहलम्, तत् कथयामि ।
उत्तरंः
इदं वाक्यं ‘अनुरागोदयः’ इति पाठात् उद्धृतम्। वाक्यमिदं महाश्वेता चन्द्रपीडं प्रति उक्तवती।

प्रश्न 27.
भवदनुग्रह एव रक्षाकवचम्।
उत्तरंः
इदं वाक्यं ‘विधिविलसितम्’ इति पाठात् उद्धृतम्। वाक्यमिदं कर्णः परशुरामं प्रति अवदत् ।

प्रश्न 28.
सः यत्रकुत्रापि भवतु कालेज् आनेतव्य एव।
उत्तरंः
इदं वाक्यं ‘कृष्णशास्त्रीमहोदयः’ इति पाठात् उद्धृतम्। वाक्यमिदं कृष्णशास्त्री महोदयः तस्य शिष्येषु एकतमः डा ॥ के.एम्. कृष्णराव् महोदयं प्रति अवदत्।

V. दशवाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा उत्तरं लिखत। (पञ्चानामेव) (5 × 5 = 25)

प्रश्न 29.
पुराणेषु भारतं कथं वर्णितम्?
उत्तरंः
भारतीयसाहित्ये अष्टादशपुराणानि प्रसिद्धानि। तेषु पुराणभारतं विशेषतः वर्णितम्। समुद्रस्य यदुत्तरं, यत् च हिमवद्धक्षिणं, तत् भारतं नाम। अस्य भारतवर्षस्य नवभेदाः। ते समुद्रान्तरिता तु परस्परम् अगम्याः ज्ञेयाः। इन्द्रद्वीपः, कशेरुमान्, ताम्रवर्णः, गभस्तिमान्, नागद्वीपः तथा सौम्यः, गान्धर्वः, वारुणः तेषां सागरसंवृतः अयं तु नवमः द्वीपः। अयं द्वीपः दक्षिणोत्तरात् योजनानां सहस्रम् वर्तते। महेन्द्रः, मलयः, सह्यः, शुक्तिमान्, ऋक्षपर्वतः, विन्ध्यः च पारियात्रा च अत्रत्यः कुलपर्वताः। गङ्गा, सरस्वती, सिन्धुः, चन्द्रभागा, च तथा यमुना च शतद्रुः च वितस्था च इरावती, कुहूचेति नद्यः अत्र प्रवहन्ति। कपिलतीर्थः गोग्रहः, सोमतीर्थः च अलाबुसंज्ञितः तीर्थः, मृत्युञ्जयः, क्रोडतीर्थः, वासुकः सिद्धकेश्वरश्चेति तीर्थक्षेत्रणि भारतवर्षे सन्ति। अस्य देशस्य दक्षिणदिशि पाण्ड्याः केरलाः चोलाः, कुल्या च तथा सेतुकाः, मूषिकाः, क्षपणाः, वनवासिकाः इत्याद्यः निवसन्ति।

2nd PUC Sanskrit Previous Year Question Paper June 2019 13
2nd PUC Sanskrit Previous Year Question Paper June 2019 14

Puranas occupy the place of pride in Indian literature. In the Puranas we find geographical descriptions of our country. The sub-continent which is to the north of the ocean and to the south of the Himalayas is named Bharata. We learn that in this country of Bharata there are nine divisions. Since these divisions are separated by the ocean, they are not connected to each other. Indradweepa, Kaseruman, Tamsavarna, Gabhastiman, Nagadweepa, Saumya, Gandharva, Varuna and Kamanika are the nine divisions. The ninth one, Kamanika, is surrounded by the ocean.

From north to south this island measures 1000 yojanas. There are seven great mountains in Bharatavarsha namely, Mahendra, Malaya, Sahya, Shuktiman, Rksha Parvatha, Vindhya and Pariyatra. Great rivers like Ganga, Yamuna, Saraswathi, Chandrabhaga, Sindhu, Shatadru, Vitastha, Iravathi and Kuhu flow here. There a number of pilgrimage centres of which Kapilatirtha, Gograhatirtha, Somatirtha, Alabutirtha, Mrithyunjayatirtha, Krodhatirtha, Vasukatirtha and Siddhakeshwaratirtha are famous. Pandyas, Keralas, Cholas, Kulyas, Setukas, Musikas, Kshapanas and Vanavasikas are the states of the southern territories.

प्रश्न 30.
विक्रमादित्यस्य परोपकारगुणं वर्णयत।
उत्तरंः
‘परेषामपि रक्ष जीवितम्’ इति पाठे विक्रमादित्यस्य परदुःखस्पन्दनगुणाः हृदयङ्गमरीत्या निरुपितो वर्तते। एकदा विक्रमादित्यः स्वमन्त्रिषु राज्यभारधुरं निक्षिप्य योगिवेषेण देशं पर्यटितुं गतः। यावत् सः कस्मिंश्चन वनं प्रविशति, तावत् सूर्यः अस्तंगतः। विश्रान्त्यर्थं सः वृक्षमूलमेकम् आश्रितवान्। तस्मिन् वृक्षे निवसतः चिरञ्जीवी नाम्नः पक्षिराजस्य पुत्रस्य वचनेभ्यः पलाशनगरस्य जनाः राक्षसबाधया पीडिताः, पर्यायक्रमेण तस्मै भोजनं पौरैः परिकल्पितं, प्रतिदिनमपि तस्य आहारार्थं मानुष एकः प्रेष्यते; तद्विने पक्षिणः पूर्वजन्मनः मित्रस्य ब्राह्मणस्य पर्यायः इत्यपि जानाति।

KSEEB Solutions

परोपकारपरः विक्रमादित्यः तत्क्षणं प्रस्थाय राक्षसं प्रतीक्षमाणः ब्राह्मणस्य परिवारं समाश्वस्य, गृहं सम्प्रेष्य, तन्नगरस्य वध्यशिलाम् आरुह्य उपविशति। तत्रागतः राक्षसः आनन्देन उपविष्टं विक्रमादित्यं दृष्टवा आश्चर्यचकितः भवति। तेन कारणं पृष्टं परार्थं स्वयं प्रेरणया प्राणाः समर्प्यन्ते, अतः दुःखं नानुभवामि इति प्रत्यवदत् राजा। तस्य परोपकारगुणात् प्रभावितो राक्षसः विक्रमादित्याय वरमेकं प्रदातुंम् इच्छति। विक्रमादित्यः तं राक्षसं ‘नरभक्षणं त्यक्तव्यम्’ इति वरं वृणुते। सर्वेभ्यः प्राणिभ्यः स्वप्राणाः इष्टाः। तदर्थं सर्वेषां प्राणिनां जीवरक्षणं कर्तव्यम् इति तं बोधयति राजा। तेन प्रभावितः राक्षसः ततः प्रभृति जीवमारणं परित्यजति।

2nd PUC Sanskrit Previous Year Question Paper June 2019 15
2nd PUC Sanskrit Previous Year Question Paper June 2019 16

King Vikramaditya’s qualities of magnanimity and doing good to others are described in the lesson ‘परेषामपि रक्ष जीवितम’. Once, placing the burden of government on his ministers, Vikramaditya set out to travel abroad in the guise of a yogi. As he travelled, one evening the sunset while he was in a great forest, and he sat down for shelter under a tree. At the top of the tree lived an aged king of the birds named Chiranjivi. His sons and grandsons would go out every day in the morning to feed themselves and return in the evening.

Vikramaditya learnt from their conversation about an ogre in the town of Palasa, that would come every day to the town and devour any man he chanced upon. He also learnt that the people of the town had offered to give the ogre one person every day for food, to which the ogre had agreed. That day it was the turn of a Brahmin. The Brahmin was a friend of one of the sons of Chiranjivi; so the bird was sad.

After listening to the birds, the king went to the town of Palasa. There he saw the Brahmin who had come according to his turn. The king asked the man to leave and he himself sat on the rock. Astonished to see the king sitting smiling on the rock, the ogre asked him the reason for his happiness. The king responded that he was offering himself, of his own accord. He said that the good wish for the happiness of all. They grieve deeply in the grief of others, abandoning their own desires for pleasure and enjoyment.

KSEEB Solutions

The ogre was pleased by the king’s conduct and asked him to choose a boon. The king asked him to give up eating humans and advised him to protect the life of others just as he would protect his own. Instructed by the king, the ogre gave up killing creatures from that time.

प्रश्न 31.
प्रवाजकः।
उत्तरंः
‘निर्विमर्शा हि भीरवः’ इति पाठे चित्रितं प्रमुखं पात्रं परिव्राड् अथवा सन्यासी। एषः गङ्गातटनिवासी मौनव्रती च भवति। भीक्षाटनया जीवनं करोति स्म।
एकदा सः प्रव्राजकः भिक्षार्थमेकस्य वणिजः गृहे गच्छति। तस्य पुत्री या अतीवसुन्दरी आसीत् सा भिक्षां दत्वा अन्तः प्रविशति। तस्या उन्मादकरि रूपं दृष्ट्वा कामवशगः सः शठः येन केन प्रकारेण तां प्राप्तुम् निश्चयति। अथः कपटमेकां युक्तिं चिन्तयित्वा तस्य सुता दुर्लक्षण। यदि तस्याः विवाहो भवति तर्हि वणिजः सकुटुम्बः विनश्यति इति वदति तां कन्यां न्यस्तदीपायां पेटिकायां निक्षिप्य, गङ्गायां क्षेप्तुं परिहारं सूचयति। भीरुः वणिक् परिव्राजा यदुक्तं तत्सर्वं तथैव करोति। अनन्तरं सः परिवाड् स्वशिष्यैः तां पेटिकाम् आनयति। एकान्ते तां पेटिकाम् उद्घाटयति, तदन्ततः घोरः वानरः एकः बहिरागत्य दन्तैः तस्य नासिकां, नखैः कर्णौ च छेदयति। एवं स्वधर्मं प्रामाणिकतया च आचरन् पुरुषः कपटयुक्तिना आत्मनः गौरवं कथं नाशयति, जनैः अपहसितश्च भवति इति पाठेस्मिन् वर्णितम् ।

2nd PUC Sanskrit Previous Year Question Paper June 2019 17
2nd PUC Sanskrit Previous Year Question Paper June 2019 18

The protagonist of the lesson ”निर्विमर्शा हि भीरवः” is a monk. He lived in a city named Makandika, on the bank of the Ganges. He observed a vow of silence and lived on alms.

Once, when he entered a certain merchant’s house to beg, he saw a beautiful maiden coming out with alms in her hand. The monk, seeing that she was wonderfully beautiful, hatched a plan to get her. He told her father, a merchant, that his daughter had inauspicious marks and that they would all die when she married. Hence he suggested that she be put in a box and be set adrift on the Ganges with a light kept on top of the box.

The timid merchant did not reflect on what the monk had said and agreed to do as the monk had commanded. He put his daughter in a box and set her adrift. The monk asked his pupils to find the box and bring it to him. But even before the monk’s pupils could get to the box, a prince chanced upon the box and replaced the girl in the box with a monkey. After the prince departed, the monk’s pupils came there in the course of their search, found the box, and carried it to the monk. When the monk opened the box, a monkey sprang out, and in its fury tore off the nose of the wicked monk with its teeth and his ears with its claws. The next morning everyone who heard the story had a hearty laugh.

प्रश्न 32.
शार्ङ्गरव-दुष्यन्तयोः संवादः।
उत्तरंः
महाकवि कालिदासस्य ‘अभिज्ञानशाकुन्तलम्’ इति रुपकस्य पञ्चमाङ्के शार्ङ्गरव-दुष्यन्तयोः संभाषणस्य सन्निवेशः विद्यते।
सोमतीर्थतः प्रतिनिवृत्तः कण्वमहर्षिः दुष्यन्त-शकुन्तलयोः परिणयं ज्ञात्वा, ताम् अभिनन्द्य पतिगृहं प्रेषयितुं निश्चिनोति। शकुन्तलां पुरस्कृत्य शार्ङ्गरवः, शारद्वतः, गौतमी च ततः निर्गत्य दुष्यन्तस्य आस्थानम् आगच्छन्ति। राजकुलं प्राप्तास्ते सर्वे, राजा दुष्यन्तस्य आज्ञया पुरोघसा सोमरतेन श्रौतेन विधिना सत्कृत्य प्रवेशिता आशीर्वचनपूर्वे राज्ञे शकुन्तलामधिकृत्य – ‘यन्मिथः समयादिमां दुहितरं भवानुपायस्तं तन्मया प्रीतिमता युवयोरनुज्ञातम्’ इति कण्वसन्देशं कथयित्वा, दुष्यन्तः अर्हतां प्राग्रसरः स्मृतः।

KSEEB Solutions

शकुन्तलापि मूर्तिमती च सत्क्रिया, तुल्यगुणं वधूवरं समानयन् प्रजापतिः चिरस्य वाच्यं न गतः’ इति उक्त्वा शकुन्तला भार्यत्वेन स्वीकर्तुं विज्ञापयति। ततः दुर्वासशापदोशाद्राजा तस्याः परिणयं न स्मारयति। तदा शार्ङ्गरवः, सतीमपि जातिकुलैकसंश्रयां जनः अन्यथा भावयन्ति। अतः प्रमदा प्रियाप्रिया वा परिणेतुः समीपे इष्यते’ इति वदति। पुनरपि दुष्यन्तः शकुन्तला तेन परिणितपूर्वा वा? इति पृच्छति। चिन्तयन्नपि तां न स्मरामि तत्कथम् अभिव्यक्त सत्वलक्षणां प्रति मां क्षेत्रिणं मन्यमानः प्रतिपत्स्ये’ इति वदाति। तदा दुष्यन्तस्य वचनं श्रुत्वा शार्ङ्गरवः – अतः सङ्गतं विशेषात् रहः परीक्ष्य कर्तव्यम् अज्ञात हृदयेषु सौहृदम् एव वैरीभवति इति दुष्यन्तं निन्दति। तदा दुष्यन्तः शकुन्तलायाः प्रत्ययात् तं संयुतदोषाक्षरें किं निन्दाति। शकुन्तलाम् अतिसंन्धाय किं लभ्यते इति वदति। यदि दुष्यन्तः शकुन्तलां न स्वीकरोति तर्हि पौरवाणां सर्वनाशः भविष्यति इति शार्ङ्गरवः वदति।

2nd PUC Sanskrit Previous Year Question Paper June 2019 19
2nd PUC Sanskrit Previous Year Question Paper June 2019 20
2nd PUC Sanskrit Previous Year Question Paper June 2019 21

The conversation between King Dushyanta and Sarngarava occurs in the fifth Act of the play ‘Abhijnana Sakuntalam’, written by the famous poet Kalidasa.

Sage Kanva, having returned from Somatheertha, learns about the marriage of Dushyanta and Sakuntala and finally decides to send Sakuntala to her husband’s house. The ascetics, Gautami, Sarngarava and Saradvata escorting Sakuntala arrive at the royal palace. The King Dushyanta orders his priest Somaratha to admit the party into his royal presence. After an exchange of greetings Sarngrava, the chief of the sages who accompanied Sakuntala conveys the message of his preceptor Kanva.

Sarngarava congratulates the king on his marriage and invites him to accept Sakuntala as the Queen. The king, to whom all this comes as a complete surprise, denies all knowledge of the affair, due to the curse of sage Durvasa. The simple-minded Sarngarava does not understand the real reason for the king’s surprise. Hence, he explains the behaviour of the world (lokavruttanta) to the king. The king now puts a direct and straight forward question, “I do not really remember having espoused this lady. How then shall I receive her, bearing visible signs of pregnancy, suspecting my relation towards her to be that of a nominal husband?”

KSEEB Solutions

When Sakuntala reveals her face, King Dushyanta’s mind is captivated by her beauty and for a moment he makes all possible effort to recollect Sakuntala. Sarngarava interprets the king’s silence as his victory and openly taunts the king. The king once again explains his helpless position. He can accept her on the words of sages, but how can he accept her child when he certainly knows himself to be only a ‘nominal father’. Sarngarava taunts the King saying, “Therefore one should form a union, and particularly that in private, after a careful examination. Friendship turns into enmity in those whose hearts are unknown to each other.” Dushyanta requests Sarngarava not to taunt him, but Sarngrava’s anger becomes uncontrollable and hence he bursts out with the curt reply – ‘Downfall’ meaning Pauravas will court their downfall.

प्रश्न 33.
रोटिकाप्रसङ्गः।
उत्तरंः
यदा महाराणाप्रतापः अरण्ये वसतिस्म तदा तस्य परिवारः महत्कष्टम् अनुबभूव। एकत्र सर्वदा वैर्याक्रमणशङ्का, अन्यत्र आहाराभावात् पुत्रकलत्राणां कष्टपरम्परा च अतीववेदनाकरी बभूव । एकस्मिन् दिने राणाप्रतापस्य पत्नी अरण्यतृणबीजचूर्णेन रोटिकाः सज्जीकृत्य सर्वेभ्यः किञ्चित्-किञ्चि द्भागं दत्तवती स्वपुत्र्यै अपि रोटिकां दत्वा ‘तस्याः अर्धमेव खादित्वा अवशिष्टमधु परेधुः भक्षणार्थं रक्ष इति उक्तवती। स्वप्रियदुहितुः परेधुः आहारः लप्स्यते वा न वा इति शङ्कया प्रेममयी माता तथावोचत् । एतादृशं दारुणं कारुण्यपूर्णश्च जीवनं व्यतीयाय सर्वोऽपि परिवारः। बहुभ्यः दिनेभ्यः पर्याप्ताहाराभावात् क्षुधिता बालिका तदानीमेव रोटिकां खादितुम् आरेभे। तावति काले कुतश्चित् अकस्मादागतः कश्चन अरण्यमार्जालः बालिकायाः हस्तात् रोटिकामाकृष्य कुत्रचिदधावत्। बालिका महता दुःखेन आक्रन्दितुम् उपचक्रमे। एतत्करुणापूर्णदृश्यम् अवलोक्य कठोरहृदयस्य राणाप्रतापस्यापि मनः अद्रवत्।

2nd PUC Sanskrit Previous Year Question Paper June 2019 21
2nd PUC Sanskrit Previous Year Question Paper June 2019 23

Rana Pratap’s family faced a lot of difficulties when it stayed in the forest. On the one hand, he was bothered by the attack of the enemies and on the other by the difficulties faced by his wife and children due to shortage of food. One day his wife prepared Rotis from the powder of the seeds of hay in the forest and served small pieces of rotis to the family members. She instructed her daughter to eat only half of the roti served to her and keep the other half for the next day as she doubted the availability of food the next day. His family members were leading such a pathetic life. As the daughter had not eaten food for many days, she started eating the roti given to her. Just then a wild cat snatched the roti from her hand and ran away. Rana Pratap’s heart melted on seeing this heart-rending scene.

KSEEB Solutions

प्रश्न 34.
सा शान्तिः ।
उत्तरंः
‘सा शान्तिः’ इति कथायाः मूललेखकः डा ॥ शिवरामकृष्णन् महोदयः। कथेयं संस्कृतभाषया अनूदिता कीर्तिशेषेण डा॥ एस्. रामकृष्णराव महोदेयेन।।
यथा नाम्नैव सूचितं कथायाः नायिका शान्तिः इति। सा विंशतिके वयसि वर्तमाना नवतरुणी। सा सर्वलक्षणसम्पन्ना सर्वावयवसुन्दरी च आसीत् अनिवार्यतया जीवननिर्वाहणार्थं सा एकस्मिन् वस्त्रापणे कार्यं करोति स्म। तस्य वस्त्रापणस्य समीपे एव तरुणस्यैकस्य कार्यालयम् आसीत्। अस्याः सौन्दर्येण आकृष्टः सः स्वमनसि एव तां प्रति विविधाभिः भावनाभिः सदा तामेव अचिन्तयत्। एकदा शान्ति तस्य कार्यालयं गत्वा मृतस्य स्वपतेः वार्षिकश्राद्धे भागं वोढुं प्रार्थयति। एतस्याः सुसंस्कृतं सद्वर्तनं तरुणस्य मनः परिवर्तयति। समाजे स्त्रियः गौरवपूर्णतया द्रष्टव्याः इति सन्देशः अनेन पाठेन लभ्यते।

2nd PUC Sanskrit Previous Year Question Paper June 2019 24
2nd PUC Sanskrit Previous Year Question Paper June 2019 25

‘सा शान्तिः’ is a story originally written in English by Dr. Shivarama Krishnan. It was translated into Sanskrit by Dr. B.S. Ramakrishna Rao. The heroine of the story is a young lady called ‘Shanthi’. She was very beautiful and was in her twenties. Owing to circumstances she was working in a cloth shop. A young man had his office close to that shop. Enraptured by her beauty, he thought about her a lot. Once, Shanthi goes to his office and requested him to attend the annual ceremony of her dead husband. With her cultured behavior, he felt bad about his own mean thoughts towards her. From that moment onwards, he changed his own perception totally. The message of the story ‘सा शान्तिः’ is to suggest to every one that one should respect women in this society.

KSEEB Solutions

प्रश्न 35.
कर्ण – परशुरामयोः संवादः।
उत्तरंः
‘कर्णः-परशुरामयोः संवादः’ विधिविलसितम् इति पाठे वर्तते।

कर्णः गुरोः परशुरामात् शस्त्रविद्याम् अभ्यस्तुमिच्छति। कर्णस्य गुरुभक्त्या सन्तुष्टः परशुरामः तस्मै सर्वाणि शस्त्राणि उपदिशति। तदनन्तरम् उपवासादिव्रतदीक्षाम् आचरितुं कथयति । व्रतदीक्षानन्तरं भार्गवास्त्रम् उपदिशति।

कर्णः स्वविद्याभ्यासस्य परिसमाप्तेरनन्तरं गुरवे दक्षिणां दातुमिच्छति। निर्लिप्तस्य वनवासिने स्वस्मै गुरुदक्षिणायाः आवश्यकता नास्ति। तथापि गुरुदक्षिणा दत्ता चेत् कलासहिताः सर्वाः विद्याः सफलाःइत्याशिषा तमभिनन्द्य गुरुकुलात् बहिर्गन्तुम् अनुमतिं ददाति।

गुरुकुलस्य वैभवं पश्यन् कर्णः भूमौ शयानं गुरुं पश्यति। तस्य शिरः स्वोत्सङ्गे स्थापयति। वज्रकीटप्रसङ्गेन उत्थितः गुरुः परशुरामः क्रोधाविष्टः सन् कर्णं भर्त्सयति – ‘पुनः किमर्थम् आश्रमं प्रत्यागतवान्? कथमहं भवतः उत्सङ्गे शयनमकरवम्? अस्याः रक्तधारायाः कारणं किम्? इदृशीष् असामान्यां सहनां वहन् त्वं कः?’ इति।

तदा कर्णः – ‘अहं सूतपुत्रः। अस्त्रविद्यायाः आकाङ्क्षया भवतः सकाशम् आगतवान्। न कयापि दुर्मत्या’ इति तस्य क्षमा याचते। अनेन कुपितो भूत्वा गुरुः ‘यदा ते मनसि सूतभावना जायते तदा अभ्यस्ताः सर्वा विद्याः विस्मरन्तु’ इति शपति।

कर्णपरशुरामयोः संवादः न कदापि असत्यं वदेत् इति नीतिं बोधयति, कर्णस्य करुणां परिस्थिति दृष्ट्वा सन्तापं सूचयतः तस्य परशुरामस्य शिष्यवात्सल्यमपि व्यक्तं भवति।

2nd PUC Sanskrit Previous Year Question Paper June 2019 26
2nd PUC Sanskrit Previous Year Question Paper June 2019 27

The conversation between Karna and his preceptor Parashurama is taken from the lesson विधिविलासतम, an extract from the drama ‘गुरुषापम’ by Dr K.S. Nagarajan.

Karna approaches Parashurama to acquire the knowledge of weapons and missiles. Parashurama, pleased with Karna’s devotion, teaches him all that he knows about weapons. After initiating him into the various austerities, he teaches him the secret of the Bhargavaastra. . After completing his education, Karna desires to give guru Dakshina to his preceptor. But the preceptor says that he has no need for any fee as he is a recluse living in the forest. If you kill all the arrogant kings with the art of missiles taught by me to you, that itself is the fees you may pay me.

KSEEB Solutions

Having taken leave of his preceptor, Karna gives a longing look at the hermitage with which he was associated for so long. Suddenly he sees his preceptor who is in deep sleep. He goes near and takes his head in his lap and ensures that the preceptor sleeps soundly. At that moment, an insect called Vajra begins to bite the thigh of Karna. It starts eating his flesh and drinking his blood. The touch of warm blood awakens Parashurama and he asks Karna, “Whose blood is this? How come my head is on your lap? Why did you come back to the ashram? Tell me the truth”. Karna replies with all humility, “Master, I am the son of a charioteer. I had a very ardent wish to gain knowledge of weapons. That is why I came to you and learnt from you.

I have no other motive. Please pardon me if I have committed any wrong”. Infuriated by the knowledge that Karna is a charioteer’s son, Parashurama curses him thus – “The moment you remember that you are the son of a charioteer, may you forget all that you have learnt from me”. Karna falls at his feet and begs his pardon. Parashurama blesses him.

This conversation between Karna and Parashurama, while highlighting Karna’s devotion towards his preceptor, cautions people against uttering lies under any circumstance. Parashurama, taking pity on Karna, shows his affection for his disciple.

प्रश्न 36.
विद्यार्थिनां कृते कृष्णशास्त्रिणां सन्देशः।
उत्तरंः
‘कृष्णशास्त्रीमहोदयः’ इति पाठे विद्यार्थिनां कृते कृष्णशास्त्रिणः सन्देशः एवम् अस्ति :- “मित्राणि, वयं न सात्विकाः स्मः, तामस-प्रवृत्तयः; क्षमाशीलाः शूराः न; भीरवः कातराश्च स्मः। राजकीयं युद्धमस्माकमनवश्यकम्। जीवनम् इति युद्धे नः तेजः धैर्यस्थैर्य स्वाभिमानं च अत्यावश्यकम्। उत्तिष्ठत! जाग्रत! प्राप्य वरान्निबोधत! वीररसयुताः कथाः पठतः। हृदयम् उत्साहेन पूरयत। धर्मबुद्धिं सञ्चारयत; स्वदेश-स्वजनाभिमानयुताः भवत। यूयं विद्यार्थिनः। विद्यार्थिनां विद्यार्जनमेव तपः। आलस्यं त्यजत युष्माकं देशस्य इतिहासं पठत, तद्धित्त । न राष्ट्रस्य च समुन्नतिः कथं भवेदिति चिन्तयत। प्रीतिर्भवतु। संहतिर्भवतु। मङ्गलं भवतु।

2nd PUC Sanskrit Previous Year Question Paper June 2019 28
2nd PUC Sanskrit Previous Year Question Paper June 2019 29

Prof. A.R. Krishna Sastri’s advice to his students is brought out in the lesson ‘कृष्णशास्त्रीमहोदयः’ Sastri used to advise his students thus: “We are not satviks. We have a tamasha character. We don’t have patience. We are not brave. We are cowards. We don’t need political war. We need courage, patience and self-respect in the battle of life. So stand up. Be enlightened. Strive till you reach your goal. Listen to stories of heroes and fill your mind with enthusiasm. Have respect for the country and the people. Learning is the only penance for students. Don’t be lazy. Read the history of our country. Think about the progress of our country. Be united.”

VI. मञ्जूषातः सूक्तं पदं चित्वा रिक्तस्थानं पूरयत। (4 × 1 = 4)

अङ्गुलिः, समीहितं, दुर्नयः, कुसुम।।

प्रश्न 37.
त्वम् आत्मनः ………….. कुरु।
उत्तरंः
समीहित

प्रश्न 38.
तमभ्यधावत् स्वकृतो मूर्तिमानिव ……….।
उत्तरंः
दुर्नयः

KSEEB Solutions

प्रश्न 39.
अङ्गुलीयकशून्या मे ………..।
उत्तरंः
अङ्गुलिः

प्रश्न 40.
………… गन्धम् अभ्यजिघ्रम् ।
उत्तरंः
कुसुम

VII. संयोजयत (4 × 1 = 4)

प्रश्न 41.
क – ख
a) पुण्डरीकः – i) बह्वपत्यः
b) गोविन्दः – ii) ऋषिकुमारकः
c) श्रुत्वा – iii) राणाहमीरः
d) सिसीदिया – iv) ज्ञानमवाप्नोति ।
उत्तरंः
a – ii; b – i; c – iv; d – iii.

VIII. रेखाङ्कितानि पदानि अश्रित्य प्रश्ननिर्माणं कुरुत। (त्रयाणमेव) (3 × 1 = 3)

प्रश्न 42.
गन्धर्वाधिपतिः हंसः।

प्रश्न 43.
अनुचराः प्रव्राजकस्य वचनम् अपालयन् ।
उत्तरंः
अनुचराः कस्य वचनम् आलापयन्?

प्रश्न 44.
कालिदासस्य सप्त कृतयः।
उत्तरंः
कालिदासस्य कृतयः कति?

KSEEB Solutions

प्रश्न 45.
वैदेशिकाः वाणिज्यार्थम् आगच्छन्ति स्म।
उत्तरंः
वैदेशिकाः किमर्थम् आगच्छन्ति स्म?

प्रश्न 46.
भाषासाहित्यविद्यार्थिभिः संस्कृतभाषा अध्येतव्या एव ।
उत्तरंः
भाषासाहित्यविद्यार्थिभिः का अध्येतव्या एव?

IX. यथानिर्देशं कुरुत। (चतुर्णामेव) (4 × 3 = 12)

प्रश्न 47.
सन्धिं विभजत/योजयत। (त्रयाणामेव)
द्वीपोऽयम्, तथेति, ग्रामस्य + एव, तथा + एव, सर्वस्य + आर्तिम् ।
उत्तरः
द्वीपोऽयम् = द्विपो + अयम्।
तथेति = तथा + इति।
ग्रामस्य + एव = ग्रामस्यैव।
तथा + एव = तथैव ।
सर्वस्य + आर्तिम् = सर्वस्यार्तिम् ।

प्रश्न 48.
विग्रहवाक्यं समस्तपदं लिखत। (त्रयाणामेव)
पुराणभारतम्, मुनिकुमारकम्, मनुजः पशुः, इव, गुरोः प्रसादम्, कामधेन्वों गुणाः ।
उत्तरः
पुराणभारतम् = पुराणेषु भारतम्।
मुनिकुमारकम् = मुनेः कुमारकः तम् ।
मनुजः पशुः = मनुजपशुः।
गुरोः प्रसादम् = गुरुप्रसादम् ।
कामधेन्वों गुणाः = कामधेनुगुणाः।

प्रश्न 49.
लिङ्ग-विभक्ति-वचनानि लिखत। (द्वयोरेव)
विद्या, महाशयस्य, अम्बया, कौतुकात् ।
उत्तरंः
विद्या = स्त्रीलिङ्गः, प्रथमाविभक्तिः, एकवचनम्।
महाशयस्य = पुंलिङ्गः, षष्ठीविभक्तिः, एकवचनम् ।
अम्बया = स्त्रीलिङ्गः, तृतीयाविभक्तिः, एकवचनम्।
कौतुकात् = नपुंसकलिङ्गः, पञ्चमीविभक्तिः, एकवचनम् ।

प्रश्न 50.
लकार-पुरुष-वचनानि लिखत। (द्वयोरेव)
कुर्वन्ति, भक्षय, भवेत्, अपनेष्यामि ।
उत्तरंः
कुर्वन्ति = लट्लकारः, प्रथमपुरुषः, एकवचनम् ।
भक्षय = लोट्लकारः, मध्यमपुरुषः, बहुवचनम् ।
भवेत् = विधिलिङ्लकारः, प्रथमपुरुषः, एकवचनम् ।
अपनेष्यामि = लुट्लकारः, उत्तमपुरुषः, एकवचनम् ।

KSEEB Solutions

प्रश्न 51.
पदपरिचयं कुरुत। (त्रयाणामेव)
कृत्वा, निरीक्ष्य, प्रवेशयितुम्, अन्यथा।
उत्तरंः
कृत्वा = त्वान्ताव्ययम्।।
निरीक्ष्य = ल्यबन्ताव्ययम् ।
प्रवेशयितुम् = तुमुन्नन्ताव्ययम्।
अन्यथा = अव्ययम् ।

प्रश्न 52.
प्रयोगं परिवर्तयत।
अ) स्त्रिया गृहं रक्ष्यते।
उत्तरंः
स्त्रीः गृहं रक्षाति।
अथवा
आ) विक्रमादित्यः कालं नयति ।
उत्तरंः
विक्रमादित्येन कालो नीयते ।

प्रश्न 53.
अलङ्कारं सलक्षणं निर्दिशत।
अ) “अस्याः आननारविन्दे अपूर्वाकर्षणम् आसीत् ।”
उत्तरंः
अत्र रुपकालङ्कारः वर्तते।
तल्लक्षणम् – ‘उपमानोपमेययोरभेदः रुपकम्’।
अथवा
आ) “त्वम् असत्यवादीव प्रतिभासि।”
उत्तरंः
अत्र उत्प्रेक्षालङ्कारः वर्तते।
तल्लक्षणम् – ‘संभावनास्यादुत्प्रेक्षा’।

प्रश्न 54.
कन्नडभाषया-आङ्ग्लभाषया वा अनुवदत। [5]
दीपावलीमहोत्सवः दिनत्रयं यावत् आचर्यते, अत्र चतुर्दश दुष्टशक्तेः नाशं सूचयति। अमावास्यायां लक्ष्मीपूजा प्रचलति। प्रतिपदि दिने वामनरूपिणा विष्णुना प्राप्तानुग्रहः बलिः पूज्यते। अस्मिन् अवसरे सर्वेषां जीवने अन्धकारः नश्यतु प्रकाशः प्रसारयतु इत्याशया सर्वत्र दीपानां मालाः विराजन्ते।
उत्तरंः
अमावास्यायां लक्ष्मीपूजा प्रचलति। प्रतिपदि दिने वामनरूपिणा विष्णुना प्राप्तानुग्रहः बलिः पूज्यते। अस्मिन् अवसरे सर्वेषां जीवने अन्धकारः नश्यतु प्रकाशः प्रसारयतु इत्याशया सर्वत्र दीपानां मालाः विराजन्ते।

2nd PUC Sanskrit Previous Year Question Paper June 2019 31

Deepavali festival is celebrated for three days. This festival stands for the destruction of fourteen wicked elements (powers). On the last day of lunar dark half (on Amavasya) the worship of goddess Laxmi will be held. On the first day of lunar bright half, people worship King Bali who was blessed by Vamana, the incarnation of Lord Mahavishnu. On this auspicious occasion people light rows of lamps with the intention of driving away darkness and spreading brightness everywhere.

KSEEB Solutions

प्रश्न 55.
संस्कृतभाषया अनुवदत। [5]

2nd PUC Sanskrit Previous Year Question Paper June 2019 32
2nd PUC Sanskrit Previous Year Question Paper June 2019 33

Gopala Krishna Gokhale was a great patriot. He led the freedom movement prominently. He was a very good orator too. People joined the freedom movement, having listened to his inspiring and patriotic speech. His simple and selfless life is a role model to all.
उत्तरंः
गोपालकृष्णगोखले महोदयः एकः अप्रतिमः देशभक्तः आसीत्। सः भारतीय स्वातन्त्र्यसङ्ग्रामे प्रमुखं पात्रम् अवहत्। सः उत्तमः वाग्मी च आसीत्। तस्य वचसि जनाः देशभक्तेः प्रेरणां प्राप्त्वा स्वातन्त्र्यसङ्ग्रामे भागं अवहन् । सः तस्य सरलं निस्वार्थं च जीवनेन सर्वेभ्यः आदर्शप्रायोऽस्ति।

प्रश्न 56.
इमं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत।। (5 × 1 = 5)
पुरा एकस्मिन् नगरे एकः भिक्षुकः आसीत्। सः जीवने एकवारं काशीं गच्छामि इति चिन्तितवान्। परन्तु काशीं गन्तुं धनमावश्यकम् | धनहीनः सः कथमपि गन्तुं निश्चिनोति। अतः सः प्रत्येकं गृहं गत्वा धनं याचते। पश्चात् सर्वं धनम् एकीकृत्य एकस्मिन् भाण्डके स्थापयति। सः समयं निश्चित्य भाण्डकं शिरसि धृत्वा काशीं गन्तुम् उद्युक्तो भवति। महताप्रयासेन च तेन काशी नगरी प्राप्ता। ततः गङ्गानद्यां स्नाति। मन्दिरं गत्वा विश्वनाथदर्शनं करोति। तेन च महदानन्दम् अवाप्नोति।
प्रश्नाः
(i) एकस्मिन् नगरे कः आसीत्?
(ii) भिक्षुकः किं चिन्तितवान्?
(iii) भिक्षुकः धनं कुत्र स्थापयति?
(iv) भिक्षुकः कुत्र स्नाति?
(v) मन्दिरं गत्वा किं करोति?
उत्तरंः
(i) एकस्मिन् नगरे एकः भिक्षुकः आसीत् ।
(ii) भिक्षुकः जीवने एकवारं काशीं गच्छामि इति चिन्तितवान् ।
(iii) भिक्षुकः धनम् एकस्मिन् भाण्डके स्थापयति ।
(iv) भिक्षुकः गङ्गानद्यां स्नाति।
(v) भिक्षुकः मन्दिरं गत्वा विश्वनाथदर्शनं करोति ।

KSEEB Solutions

अथवा

मित्रं प्रति पत्रमेकं लिखत।
उत्तरंः

स्थलम्ः तुमकूरुनगरम्
दिनाङ्कः ०४ जनवरी, २०१९.

प्रियमित्र,
सादरं प्रणामाः।
अहमत्र कुशली। भवान् अपि कुशली इति भावयामि। मम अध्ययनं सम्यक् प्रवर्तते। अस्माकं विद्यालये संस्कृतोत्सवकार्यक्रमः, तथा भगवद्गीताकण्ठपाठस्पर्धा च आयोजिता वर्तते। अहमपि भागं वहामि। अतः तस्मिन् समये भवता अवश्यम् आगन्तव्यम् ।
अन्यत् सर्वं कुशलम् । अवश्यम् आगच्छति ननु ।

भवदीयः मित्रम्
प्रतापः
(हस्ताङ्कनम्)

सकाशात्
द्वितीय पि.यू.सि. ‘अ’ विभागः
सर्वकारीय प.पू.विद्यालयः
तुमकूरुनगरम्।

सविधे,
विजयः
प्रतापः
द्वितीय पि.यू.सि., ‘क’ विभागः
विद्योदयविद्यालयः
शिरसिनगरम्।

Leave a Comment

error: Content is protected !!