Students can Download Sanskrit चित्रकथा Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 10 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.
Karnataka State Syllabus Class 10 Sanskrit चित्रकथा
1. गुरुकुलम्
एतत् गुरुकुलम् । अत्र उटजानि सन्ति। पूर्वस्यां दिशि सूर्यः उदेति । गुरुशिष्यौ यज्ञ कुरुतः । जनाः वायुविहारं कुर्वन्ति । दूरे नारिकेलवृक्षौ स्तः। शश: गुरोः पार्श्वे . अस्ति । खगौ वृक्षे स्तः। हरिणः सञ्चरन् अस्ति। गज-व्याव-हणिादयः सौहार्दैन कासारे जलं पिबन्ति ।
(व्याघ्रः, शशः, यज्ञं व्यायामम्, शिष्यान्, खगौ, नारिकेलवृक्षः, तालवृन्तः, कुरुतः, पिबन्ति, बोधयति, शृण्वन्ति उटजानि, हरिणः, उदेति, वायुविहारम्, सौहार्देन, सन्ति, अस्ति, स्तः।)
2. देवालयपरिसरः
एषः देवालयपरिसरः । देवालयस्य पार्वे वापी वर्तते । घटः वापी समीपे वर्तते। अस्य पुरतः ध्वजस्तम्भः वर्तते। धेनुः तत्र स्वपिति । देवालयं परितःभित्तिः वर्तते। नागदेवः रथः च भित्तिसमीपे स्तः । देवालयस्य शिखरः सुशोभते । देवालये घण्टा वर्तते। आलयस्य परिसरः निर्मलं वर्तते। अर्चकः देवालयं गच्छन् अस्ति। रथस्य उपरि पताकाः शोभन्ते । माता पुत्रः च पूजां कारयति। भिक्षुकः भिक्षां याचते। धेनुः स्वपिति ।
(अर्चकः, शुनकः, धेनुः, वापी, भिक्षुकः, ध्वजस्तम्भः, शिखरः, घण्टा, नागदेवः, माता, पुत्रः, रथः, वृक्षः, घटः, भित्तिः, कारयति, गच्छन् अस्ति, यांचते, स्वपिति, शोभते, अस्ति, निर्मलम्, धनम्, पताका ।)
3. कृषिक्षेत्रम्
इदं कृषिक्षेत्रम् । क्षेत्रे कूपः वर्तते। कृषीवलस्य गृहं क्षेत्रस्य मध्ये अस्ति । आम्र तथा नारिकेलवृक्षः गृहस्य पृष्ठे सन्ति। वृक्षेषु फलानि सन्ति। शकटः गृहसमीपे अस्ति। शकटस्य चक्रद्वयं वर्तते। वृषभस्य द्वे शृङ्गे वर्तते। क्षेत्रे कृषकाः कृषिकार्यं कुर्वन्ति । वाप्यां जलयन्त्रं वर्तते। जलयन्त्रात् जलं निस्सरति। क्षेत्रं परितः पर्वतः अस्ति। मेघाः आकाशे सन्ति। पक्षिणः क्षेत्रस्योपरि उड्डयन्ति। वृषभौ हलं कर्षतः ।
(शकटः, गृहम्, वृक्षाः, फलानि, नारिकेलम्, आम्रम्ज, कूपः, वृषभौ, धेनुः, कृषकाः, आरोपयन्ति, वहति, कर्षति, जलयन्त्रम्, पर्वतः, मेघः, जलम्, चक्रद्वयम्, शृङ्गे, उड्डयन्ति ।)
4. चिकित्सालयः
एषः चिकित्सालयः । वैद्यः बालं परीक्षते। चिकित्सालये व्यजनं अस्ति। प्रकोष्ठं तिरस्करिण्या आच्छादिम् अस्ति। चित्रं भितौ विराजते । आसन्दः भित्तिपार्वे अस्ति। उत्पीठिकायां मापनयन्त्रम् गुलिकाः सन्ति। वैद्यः उपनेत्रं धृतवान् । वैद्यः घटीयन्त्रं धरति । पार्श्वे नलिका शोभते ।
(वैद्यः, बालः, कूप्यः, व्यजनम्, उपनेत्रम्, घटीयन्त्रम्, मापनयन्त्रम्, नलिका, गुलिकाः, चित्रम्, उत्पीटिका, आसन्दः, तिरस्करिणी, परीक्षते, उपविशति, पुरतः, अस्ति, सन्ति, दृश्यते, पार्श्वे ।)
5. उद्यानम्
इदम् उद्यानम् । उद्यानस्य मध्ये मण्डपम् शोभते । मण्डपस्य सोपानानि वर्तन्ते । उद्यानं परितः पर्वताः सन्ति। पर्वते जलपातः वर्तते। मेघाः आकाशे सञ्चरन्ति । अत्र बहूनि सस्यानि सन्ति। मण्डपस्य पुरतः सुन्दरं विशालं तटाकः अस्ति। तटाके कमलानि सन्ति। वृक्षस्योपरि पक्षिणौ स्तः। बालकः व्यायामं करोति । आसने वृद्धौ उपविशतः। अवरुणद्धि मण्डपस्य पार्श्वे वर्तते । बालिका पुष्पं दर्शयति । बालकौ क्रीडतः ।
(वृक्षः, आसनम्, पक्षिणौ, मेघाः, सस्यानि, वृद्धौ, कमलानि, पुष्पम्, दर्शयति, क्रीडतः, अवरुणद्धि, पर्वताः, व्यायामम्, मण्डपम्, सोपानानि, तटाकः, जलपातः, अस्ति, कोटरः, पत्रम्, सुन्दरम्, विशालम्, कुरुतः, स्मरति ।)
6. आपणव्यवहारः
आपणे आपणिकः अस्ति। तत्र आम्रम् अनानसम्, द्राक्षाफलम्, कदलीफलानि सन्ति। चष्कुल्यः, लड्डुकं च वर्तते। उपरि व्यजनं दृश्यते । छत्रं, पुस्तकानि अपि सन्ति। देवस्य चित्रं भित्तौ अस्ति। (तस्य) गृहं पार्वे वर्तते। गृहस्य पार्वे तरुः वर्तते। आपणिकः शल्यं धृतवान् । छात्राः बालिकाः फलं क्रीणाति। स्यूतः बालिकायाः पृष्ठे अस्ति। कदलीफलानि अधिकानि तथा द्राक्षाफलानि अल्पानि सन्ति ।
(बालिकाः, धनम्, आपणिकः, कदलीफलानि, आम्रम्, अनानसम्, छत्रम्, चष्कुल्यः, लड्डुकम्, पुस्तकम्, दृश्यते, चित्रम्, स्यूतः, द्राक्षाफलम्, जलकूपी, शल्यम्, व्यजनम्, तरुः, गृहम्, अस्ति, क्रीणाति, यच्छति, पश्यति, तिष्ठति, पुरतः, छात्राः, सन्ति, अल्पम्, अधिकम् ।)