Students can Download Sanskrit Lesson 1 उपनिषद्वचनम् Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 10 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.
Karnataka State Syllabus Class 10 Sanskrit नंदिनी Chapter 1 उपनिषद्वचनम् (वेदान्तवाणी)
उपनिषद्वचनम् Questions and Answers, Summary, Notes
अभ्यासः
I. एकवाक्येन उत्तरं लिखत।
प्रश्न 1.
मोक्षप्राप्तिः केन भवति?
उत्तरम्
मोक्षप्राप्तिः आत्मज्ञानेन भवति ।
प्रश्न 2.
चतुर्विधपुरुषार्थाः के?
उत्तरम्
धर्म-अर्थ-काम-मोक्षाः चतुर्विधपुरुषार्थाः।
प्रश्न 3.
इदं सर्वं केन व्याप्तम् ?
उत्तरम्
इदं सर्वं परमात्मना व्याप्तम् ।
प्रश्न 4.
काः समुद्रे अस्तं गच्छन्तिः ?
उत्तरम् नद्यः समुद्रे अस्तं गच्छन्ति ।
II. रिक्तस्थानं पूरयत।
- यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति।
- गच्छन्ति नामरूपे विहाय।
- एकोदेवः सर्वभूतेषु गूढ़ः।
III. चतुर्थपदं लिखत।
- नद्यः → समुद्रेऽस्तं गच्छन्ति;
विद्वान् → परात्परं पुरुषमुपैति। - इदं जगत् → ईशावास्यम्;
कस्यस्विद्धनम् → मा गृधः।
IV. रेखाङ्कितपदम् अवलम्ब्य प्रश्नवाक्यं कुरुत।
प्रश्न 1.
नद्यः समुद्रे अस्तं गच्छन्ति।
उत्तरम्
काः समुद्रे अस्तं गच्छन्ति ?
प्रश्न 2.
त्वं त्यक्तेन भुञ्जीथाः।
उत्तरम्
अहं केन भुञ्जीय ?
प्रश्न 3.
उपनिषदः शतशः सन्ति।
उत्तरम्
उपनिषदः कति सन्ति ?
(OR)
उपनिषदः कति सङ्ख्याकाः सन्ति ?
V. लिङ्ग-विभक्ति-वचनानि लिखत।
- उपनिषदा → पुंलिङ्गः – तृतीयविभक्तिः – एकवचनम्।
- कस्य → पुंलिङ्गः/नपुंसकलिङ्गः – षष्ठीविभक्तिः – एकवचनम्
- आत्मानम् → पुंलिङ्गः – द्वितीयाविभक्तिः – एकवचनम्।
- जगत्याम् → स्त्रीलिङ्गः – सप्तमीविभक्तिः – एकवचनम्।
VI. सन्धिं विभज्य नाम लिखत।
- निर्गुणश्च = निर्गुण : + च → सकारादेशविसर्गसन्धिः।
निर्गुणस्ः + च → श्चुत्वसन्धिः। - आत्मन्येव = आत्मनि + एव → यणसन्धिः।
- नामरूपाद्विमुक्तः = नामरूपात् + विमुक्तः → जशत्वसन्धिः।
- चराचरम् = चर + अचरम् → सवर्णदीर्घसन्धिः।
इतरप्रश्नाः
I. सूक्तम् उत्तरं चित्वा लिखत।
प्रश्न 1.
आत्मविद्या एतम् उपदिशति।
(a) धर्ममार्गम्
(b) अर्थमार्गम्
(c) काममार्गम्
(d) मोक्षमार्गम्
प्रश्न 2.
इदं सर्वं अनेन व्याप्तम्।
(a) ईश्वरेण
(b) वायुना
(c) जलेन
(d) तेजसा
प्रश्न 3.
उपनिषदः अस्य प्राप्तौ साधनानि भवन्ति।
(a) लौकिकज्ञान
(b) व्यावहारिकज्ञान
(c) आत्मज्ञान
(d) विज्ञान
प्रश्न 4.
‘यः’ शब्दस्य स्त्रीलिङ्गरूपम् इदं भवति।
(a) या
(b) यौ
(c) ये
(d) यम्
प्रश्न 5.
‘गृधः’ अस्य समानार्थकपदम् इदं भवति।
(a) गृध्रः
(b) आकांक्षा
(c) वृथा
(d) स्मृतः
उपनिषद्वचनम् Introduction:
According to our traditional belief, worldly pleasures are momentary and evolved four values or goals (Purusharthas). 1781 is important which is attained only through the knowledge of the self (spiritual knowledge). This is called as आत्मज्ञान.
Vedas, Upanishads and many more books on philosophy provide us the knowledge of spirituality. There are more than a hundred Upanishads in the Vedic literature. Some mantras are given in this lesson.
उपनिषद्वचनम् पीठिकाः
धर्म-अर्थ-काम-मोक्षाः चतुर्विधषपुरुषार्थाः। तेषां प्राप्तिरेव मानवजीवनस्य अन्तिमं लक्ष्यम् इति भारतीयानां दृढ़विश्वासः। तेषु अन्तिमस्य मोक्षस्य प्राप्तिः आत्मज्ञानादेव भवति। आत्मज्ञानप्राप्तौ वेदाः, उपनिषदश्च साधनानि भवन्ति। एताः उपनिषदः शताधिकाः सन्ति। तासु प्रोक्ताः केचन मन्त्राः अत्र निरूपिताः
उपनिषद्वचनम् Summary in Sanskrit
सारांश:
ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद्धनम् ॥ ॥१॥
पृथिव्यादि सर्वमिदं जगत् ईशेन आच्छादितमस्ति । अतः आशां त्यक्त्वा ब्रह्मानुभवं लभस्व । कस्यापि धनं माकांक्षीः धनाशां मा कुरु ।
यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते॥ ॥२॥
यः अव्यक्तादीनि स्थावरान्तानि आत्मनि एव अनुपश्यति च सर्वभूतेषु स्वात्मानम् अनुपश्यति, सः तस्मादेव दर्शनात् घृणां न करोति।
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी येता केवलो निर्गुणश्च॥ ॥३॥
यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छति नामरूपे विहाय।
तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्॥ ॥४॥
येनप्रकारेण प्रवहन्त्यः नद्यः समुद्रे नामरूपं विहाय अस्तं गच्छन्ति, तथा आत्मज्ञानी नामरूपात् विमुक्तः सन् परमम् उपगच्छति।
उपनिषद्वचनम् Summary in Kannada
उपनिषद्वचनम् Summary English
All this whatsoever moves in this universe, including the universe itself moving, clothed or enveloped by Lord. So that renounced (सर्वसंगपरित्यागः)you should enjoy, covet not anybody’s wealth.
One who is driven by his Atma gnana and his intellect, he can see (realise) all the living beings are in his soul and in the same way his soul is in all the living beings so that he will be freed from the fear and anxieties of worldly attachments.
How, all the rivers being joined (submerged) with an ocean, without the name and the structure of their own. Like this, all the sages (ज्ञानी) will attain the end of the road which is the highest place of salvation, by leaving their name and form.