KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 20 पत्रलेखनम्

Students can Download Sanskrit Lesson 20 पत्रलेखनम् Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 10 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 10 Sanskrit नंदिनी Chapter 20 पत्रलेखनम्

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 20 पत्रलेखनम् 1

Introduction:
Letter writing is an art. It is of the utmost importance in our everyday life. A letter is normally a printed or a written message. A message contains the ideas and thoughts of its author. A letter usually consists of the following six parts –

  1. The heading
  2. The salutation
  3. The message or the body of the letter.
  4. The subscription or courteous leave taking
  5. The signature
  6. The superscription of address.

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 20 पत्रलेखनम्

पीठिका
पत्रलेखनम् तावत् एका कला । व्यवहारसमये इयं कला अतीव प्रमुखा । हस्तेन लिखितः मुद्रणादिना प्रकृटीकृतो वा स्वसन्देश एव पत्रम् । प्रायः सर्वत्र पत्रेषु षडवयवाः सन्ति । ते –

  1. शीर्षिका
  2. सम्बोधनम्
  3. विषयः
  4. समाप्तिः
  5. हस्ताङ्कनम्
  6. सङ्केतश्च।

I. 1) त्वं गिरिजा / गिरीशः इति मत्वा, प्रवासार्थं धनं प्रेषयितुं पितरं | मातरं प्रति पत्रं लिखत ।

क्षेमम्

जयनगरम्
दिनाङ्कः 30-2-2014

पूज्यपितृ /मातृचरणानां पादयोः साष्टांङ्गप्रणामाः ।

अहम् अत्रं कुशली । भवन्तः अपि तत्र कुशलिनः इति मन्ये । मम अध्ययनम् सम्यक् प्रचलति । आगामि मासस्य प्रथमसप्ताहे मम विद्यालयस्य अध्यापकाः शैक्षणिकप्रवासार्थं देहलिनगरं नेष्यन्ति । अहमपि तैः सह गन्तुमिच्छामि । एतदर्थं 2000 रूप्यकाणि दाताव्यानि भवन्ति । अतः गन्तुम् अनुमतिं ददातु । धनञ्च प्रेषयतु इति प्रार्थयामि । अन्यत्र सर्वं कुशलम्। सर्वेभ्यः मम नमस्कारान् सूचयतु ।

भवदीयः / या

पुत्रः / पुत्री
गिरीशः / गिरिजा

पत्रसङ्केतः

मुद्रा
सकाशात्
सविधे
गिरीशः छात्रनिवासः, गिरिराजः
जयनगरम् , उत्तरहल्ली
पिन् ५५३४००, पिन् ३००४९२

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 20 पत्रलेखनम्

2) नन्दनः बेंगलूरुनगरे निवसति । सः शिरसि नगरे विद्यमानं सहोदरं प्रति पत्रं लिखति । रिक्तस्थानं पूरयत ।

क्षेमम्
श्रीः

दिनाङ्कः 5-5-2014

बेंगलूरु प्रियसहोदर नमस्काराः ।

अहमत्र कुशली । तत्रापि भवन्तः सर्वेऽपि कुशलिनः इति भावयामि । अत्र मम अध्ययनं सम्यक् प्रचलति। पाण्मासिकपरीक्षा समाप्ता । यथाक्रमं अस्मिन् वर्षेऽपि अहमेव प्रथमस्थानम् प्राप्तवान् । गुरवः सम्यक् बोधयन्ति । तेषां मार्गदर्शनेन वार्षिकपरीक्षायामपि उत्तमं फलितांशं प्राप्स्ये इति मम उत्कटेच्छा अस्ति। मम विषये कापि चिन्ता ना कार्या। सर्वेभ्यः मम प्रणामाः।

भवतः सहोदरः
नन्दनः
मुद्रा

पत्रसङ्केतः

सकाशात् नन्दनः
प्र. सं. 7, श्रीनिवास छात्रावासः
उत्तरहल्ली, बेंगलूरु
पिन् ५६००६१

सविधे

श्रीनिवास नरसिंहः
‘आचार्य’, देवालय वीथी
शिरसि
पिन् ३००४१२

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 20 पत्रलेखनम्

II. विरामपत्रम्

दिनाङ्क: 20-7-2014
स्थानम् : धारवाड

सकाशात्

सुधाकरः
दशमकक्ष्या, शारदाप्रौढ़शाला धारवाड

सविधे

मान्याः मुख्योपाध्यायाः
शारदाप्रौढ़शाला धारवाड ।
मान्याः

विषयः : – विरामप्रार्थना

श्वः मम गृहे धार्मिकोत्सवः भविष्यति । अतः अहं शालां न आगमिष्यामि। कृपया एकदिनस्य विरामं ददातु इति सविनयं प्रार्थये ।

धन्यवादाः

दिनाङ्कः 20-1-2014
स्थानम् धारवाड

भवदीयः
विधेयः छात्रः
सुधाकरः

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 20 पत्रलेखनम्

III. पुस्तकप्रेषणाय पत्रम् ।

सकाशात्

गिरीशः | गौरी
गृहसंख्या- 35, 1 उपमार्गः, III मुख्यमार्गः
कालिदासनगरम्, कोलार ।

सविधे

मान्यव्यवस्थापकः
विद्याप्रकाशनम्, मङ्गलूरु ।
मान्याः

विषयः : पुस्तकार्थम् आवेदनम्

भवत्प्रकाशितस्य ‘व्याकरणप्रभा’ इति पुस्तकस्य आवश्यकता अस्ति। कृपया यथाशीघ्रम् एकं पुस्तकं प्रेषयतु इति प्रार्थये ।

धन्यवादाः

दिनाङ्कः 21-4-2014.
स्थानम् : कोलार

पत्रसङ्केतः

भवती विश्वासी/ विश्वासिनी
गिरीशः/गौरी
मुद्रा

सकाशात्

गिरीशः
कालिदासनगरम्
कोलार; पिन् 522101

सविधे

व्यवस्थापकः
विद्या प्रकाशनम्
मङ्गलूरु; पिन् 541202

error: Content is protected !!