2nd PUC Sanskrit Model Question Paper 2 with Answers

   

Students can Download 2nd PUC Sanskrit Model Question Paper 2 with Answers, Karnataka 2nd PUC Sanskrit Model Question Papers with Answers help you to revise complete Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Model Question Paper 2 with Answers

अङ्काः 100
समय : 3 घण्टा 15 निमेषाः

I. एकवाक्येन संस्कृतभाषया उत्तरं लिखत। (10 × 1 = 10)

प्रश्न 1.
भारतवर्षे कति कुलपर्वताः सन्ति ?
उत्तरम्
भारतवर्षे सप्त कुलपर्वताः सन्ति।

प्रश्न 2.
राजा किमाश्रित्य रात्रौ स्थितः?
उत्तरम्
राजा वृक्षमूलम् आश्रित्य रात्रौ स्थितः।

KSEEB Solutions

प्रश्न 3.
माकन्दिका नाम नगरी कुत्र अस्ति?
उत्तरम्
माकन्दिका नाम नगरी जाह्नवीतटे अस्ति।

प्रश्न 4.
मृगपोतकस्य नाम किम्?
उत्तरम्
मृगपोतकस्य नाम दीर्घापाङ्गः।

प्रश्न 5.
राणाप्रतापस्य अश्वस्य नाम किम्?
उत्तरम्
राणाप्रतापस्य अश्वस्य नाम चेतकः।

प्रश्न 6.
श्वेतकेतोः तनयः कः?
उत्तरम्
श्वेतकेतोः तनयः पुण्डरीकः।

प्रश्न 7.
सुन्दरस्य पिता कः?
उत्तरम्
सुन्दरस्य पिता गोविन्दः।

प्रश्न 8.
कर्णस्य रक्षाकवचं किम् ?
उत्तरम्
कर्णस्य रक्षाकवचं गुरोः अनुग्रहः।

प्रश्न 9.
के धनमिच्छन्ति?
उत्तरम्
अधमाः धनमिच्छन्ति।

प्रश्न 10.
कृष्णशास्त्रिणां माता का?
उत्तरम्
कृष्णशास्त्रिणां माता श्रीमती शङ्करम्मा।

II. द्वित्रैः वाक्यैः कन्नडभाषया आङ्ग्लभाषावा वा उत्तरं लिखत। (2 × 5 = 10)

प्रश्न 11.
पुराणभारते उल्लिखितानि तीर्थक्षेत्राणि कानि?

प्रश्न 12.
विक्रमादित्य: राक्षसं किम् उपदिशति?

KSEEB Solutions

प्रश्न 13.
प्रव्राजकः निजान् अनुचरान् किम् उवाच?

प्रश्न 14.
राणाप्रतापस्य प्रतिज्ञा का?

प्रश्न 15.
प्रणामावसरे महाश्वेता कीदृशी आसीत्?

प्रश्न 16.
सुन्दरः किमर्थं स्वग्रामं त्यक्तवान्?

प्रश्न 17.
नरविग्रहाः देवा: के?

III. पाठनाम उल्लिख्य श्लोकानाम् अनुवादं कन्नड-आङ्ग्लभाषया वा कुरुत। (त्रयाणामेव) (3 × 3 = 9)

प्रश्न 18.
ज्ञेयं तद्भारतं वर्ष सर्वकर्मफलप्रदम्।
अत्र कर्माणि कुर्वन्ति त्रिविधानि तु नारद॥

प्रश्न 19.
तदेतां वीक्ष्य दुःखं मे जातं भक्तो हि मे भवान्।
तेनैवमुक्तवानस्मि त्यक्त्वा मौनं भवत्कृते।।

प्रश्न 20.
कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि।
तमस्तपति धर्माशौ कथमाविर्भविष्यति।।

प्रश्न 21.
धन्योऽस्मि गमनात्पूर्वमीदृशी सम्पदागता।
विना तु गुरुशुश्रूषां नान्यद्भाव्यं परं मम।।

प्रश्न 22.
कामक्रोधौ तथा लोभं स्वादं शृङ्गारकौतुके।
अतिनिद्रातिसेवे च विद्यार्थी हृष्ट वर्जयेत्।।

IV. पाठनाम उल्लिख्य कः कं प्रति अवदत् इति संस्कृतभाषया लिखत। (चतुर्णामेव) (4 × 2 = 8)

प्रश्न 23.
अद्यप्रभृति मनुष्यभक्षणं परित्यज।

प्रश्न 24.
सुखानि ते भतृकुलदेवताः वितरन्तु।

KSEEB Solutions

प्रश्न 25.
कुत्रापि गत्वा धनं सङ्ग्रहिष्यामि।

प्रश्न 26.
पुण्डरीक इति नाम चक्रे।

प्रश्न 27.
भगवदनुग्रह एव रक्षाकवचम्।

प्रश्न 28.
परीक्षार्थम् इतोऽपि समयावकाशः विद्यते।

V. दशवाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा उत्तरं लिखत। (पञ्चानामेव) (5 × 5 = 25)

प्रश्न 29.
भारतवर्षस्य भौगोलिकचित्रणं कुरुत।

प्रश्न 30.
विक्रमादित्यस्य प्रभावेण राक्षसः कथं परिवर्तितः?

प्रश्न 31.
प्रव्राजकः।

प्रश्न 32.
दुष्यन्तस्य पात्रचित्रणं कुरुत।

प्रश्न 33.
भामाशाहस्य राजभक्तिः।

प्रश्न 34.
तपोधनं युवानं दृष्ट्वा महाश्वेता किम् अचिन्तयत्?

KSEEB Solutions

प्रश्न 35.
शान्तिदर्शनात् तरुणस्य चिन्तासन्ततिः।।

प्रश्न 36.
कर्णशापप्रसङ्गः

VI. मञ्जूषातः सूक्तं पदं चित्वा रिक्तस्थानं पूरयत। (4 × 1 = 4)

प्रश्न 37.
द्वीपेषु सर्वेषु …………. प्रयान्ति। (नराः)

प्रश्न 38.
चिरस्य वाच्यं न गतः ………….। (प्रजापतिः)

प्रश्न 39.
वैरिणां …………. समुद्रोपमम् आसीत्। (सैन्यम्)

प्रश्न 40.
अनया अनार्यया निवार्यता …………. । (हृदयम्)

VII. संयोजयत। (4 × 1 = 4)

प्रश्न 41.
क – ख
परिव्राड् – कुङ्कुमम्
गन्धवहः – योद्धारः
बिल्लाः – कामवशगः
ललाटे – वायुः
उत्तरम्
कामवशगः
वायुः
योद्धारः
कुङ्कुमम्

VIII. रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत (त्रयाणामेव) (3 × 1 = 3)

प्रश्न 42.
शान्तिः धनं न स्वीचकार।
उत्तरम्
किं

KSEEB Solutions

प्रश्न 43.
भगवतः सुन्दरं रूपमासीत्।
उत्तरम्
कस्य

प्रश्न 44.
‘मेवाड’ इति स्थलं राजस्थाने प्रसिद्धमासीत्।
उत्तरम्
कुत्र।

प्रश्न 45.
कालिदासस्य सप्त कृतयः।
उत्तरम्
कति

प्रश्न 46.
विमर्शकेन कृतीनामध्ययनं सम्यक् कर्तव्यम्।
उत्तरम्
केन

IX. यथानिर्देशं कुरुत। (चतुर्णामेव) (4 × 3 = 12)

प्रश्न 47.
सन्धिं विभजत/योजयत। (त्रयाणामेव)
भरणाच्च, अर्थविद्राजा, अध: + तूष्णीम्, तथा + एव।
उत्तरम्
भरणात् + च, अर्थवित् + राजा, अधस्तूष्णीम्, तथैव।

प्रश्न 48.
विग्रहवाक्यं/समस्तपदं लिखत। (त्रयाणामेव)
देशान्तरम्, वस्त्रापणः,जितेन्द्रियः, गुरोः प्रसादम्, राष्ट्रस्य कविः।
उत्तरम्
अन्यः देशः, वस्त्राणाम् आपणः, जितानि इन्द्रियानि येन सः, गुरुप्रसादम्, राष्ट्रकविः।

प्रश्न 49.
लिङ्ग-विभक्ति-वचनानि लिखत। (द्वयोरेव)
परीक्षायाम्, पौरवैः, वचनात्, सलिलम्।
उत्तरम्
परीक्षायाम् – स्त्री, सप्तमी, एकवचनम्
पौरवैः – पुंलिङ्गः, तृतीया, बहुवचनम्।
वचनात् – नपुंसकलिङ्गः, पंचमी, एकवचनम्
सलिलम् – नपुंसकलिङ्गः, प्रथम, एकवचनम्

प्रश्न 50.
लकार-पुरुष-वचनानि लिखत। (द्वयोरेव)
अब्रवीत्, बभूव, ददर्श, वर्जयेत्।
उत्तरम्
अब्रवीत – लङ्, प्रथम, एक
बभूव – लिट्, प्रथम, एक
ददर्श – लिट्, प्रथम, एक
वर्जयेत् – विधिलिङ्, प्रथम, एक

KSEEB Solutions

प्रश्न 51.
वाक्यदोषं परिहरत
भवान् गन्तुम अर्हसि।
उत्तरम्
भवान् गन्तुमर्हति।

तस्य विना तृणमपि न चलति।
उत्तरम्
तम्/तेन/तस्मात् विना तृणमपि न चलति।

प्रश्न 52.
प्रयोगं परिवर्तयत।
कृष्णरायेण इयं घटना स्मर्यते।
उत्तरम्
कृष्णरायः इमां घटनां स्मरति।
अथवा
त्वं मौनं त्यक्त्वा उक्तवान्।
उत्तरम्
त्वया मौनं त्यक्त्वा उक्तम्।

प्रश्न 53.
अलङ्कारं सलक्षणं निर्दिशत।
कुसुमगन्धेन मधुकरीव आकृष्यमाणा
उत्तरम्
अत्र उपमा अलङ्कारः
लक्षणम् – उपमा यत्र सादृश्य लक्ष्मीरुल्लसति द्वयोः
उपमानं – मधुकरी
उपमावाचकः – इव साधारणधर्मः – आकर्षणम्
अत्र मधुकरी यथा गन्धेन आकृष्यते तथा महाश्वेतायाः आकर्षणं वर्णितम्। अतः उपमालङ्कारः।
अथवा
विद्या प्रवासे मातृसदृशी। उत्तरम् उपमालङ्कारः।
लक्षणम् – उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः।
अत्र उपमानं -माता उपमेयः – विद्या उपमावाचक – इव
विद्यायाः मात्रा सह सादृश्यवर्णनात् उपमालङ्कारः।

KSEEB Solutions

प्रश्न 54.
कन्नडभाषया-आङ्ग्लभाषया वा अनुवदत।
क्रीडा मानवस्य नितराम् आवश्यकी । क्रीडया शक्तिः वर्धते । उल्लासः उत्पद्यते । आरोग्यं जायते। मनः विकसति। जीवनोत्साहः एधते। एकताभावः सम्पद्यते । मैत्री विस्तारं गच्छति, अतः खलु ज्येष्ठाः एकघण्टापर्यन्तं तुल्यशीलवयोभिः क्रीडितव्यमिति उपदिशन्ति।
उत्तरम्
2nd PUC Sanskrit Model Question Paper 2 with Answers 1

Sports is very much essential for human. From the sports strength will increase, can gain happiness, health improves, mind becomes stable, enthusiasm in life increases, unity becomes strong, friendship expands. Hence elders adviced to play atleast for one hour with same aged
friends.

प्रश्न 55.
संस्कृतभाषया अनुवदत।
2nd PUC Sanskrit Model Question Paper 2 with Answers 2

Kartikeya, the destroyer of demon Taraka, is the younger son of Lord Shiva. Ganesha, the remover of obstacles is His elder son. Kubera, the lord of wealth is His friend. Parvathi, the mother of Universe is His wife. Parvatharaja, the king of mountains is His father-in-law. Nandi is his vehicle. Virabhadra is His chief of army. In spite of all this Lord Shiva begs. What a destiny!
उत्तरम्
तारकासुरस्य हन्ता कार्तिकेयः शिवस्य कनिष्ठपुत्रः। विघ्ननिवारकः गणेशः ज्येष्ठपुत्रः। सम्पदः अधिपतिः कुबेरः परममित्रम्। जगन्माता पार्वती तत्पत्नी। श्वशुरः पर्वतराजः। तद्वाहनं नन्दी। तस्य सेनापतिः वीरभद्रः। एतादृश कुटुम्बी अपि शिवः भिक्षायै अटति। अहो विधिविपर्यासः।

प्रश्न 56.
परिच्छेदमिमं पठित्वा प्रश्नानाम् उत्तराणि लिखत। (5 × 1 = 5)
कश्चित् स्तेनः कस्यचित् नगरस्य राजा बभूव । तस्यान्तिकं कश्चित् कविवर: आगत्य तमधिकृत्य कानिचन पद्यानि पठित्वा मह्यं यां कांचित् सम्भावनां देहि इति ययाचे । तत: स राजा पार्श्वे स्थितान् आलोक्य अस्य कविवरस्य देहे वर्तमानानि सर्वाणि वस्त्राणि अपनीय एनं विद्रावयत इति आदिशत् । ते तथैव तस्य सर्वाणि वस्त्राणि अवलुप्य तं निरवासयन् । अतः नीच: महत्पदं प्राप्तोऽपि स्वीयं दुःशीलतां न त्यजति ।
प्रश्नाः
1. कः राजा बभूव ?
उत्तरम्
स्तेनः राजा बभूव

2. राज्ञः अन्तिकं कः आगतः?
उत्तरम्
तस्यान्तिकं कश्चित् कविवरः आगतः।

KSEEB Solutions

3. राजा पार्श्वे स्थितान् आलोक्य किमिति आदिशत्?
उत्तरम्
कविवरस्य देहे वर्तमानानि सर्वाणि वस्त्राणि अपनीय एनं विद्रावयत इति आदिशत्।

4. सम्भावनां देहि इति कः अयाचत्?
उत्तरम्
सम्भावनां देहि इति कविवरः अयाचत्।

5. कः महत्पदं प्राप्तोऽपि दुःशीलतां न त्यजति?
उत्तरम्
नीच: महत्पदं प्राप्तोऽपि स्वीयं दुःशीलतां न त्यजति।

अथवा
जन्मदिनमामन्त्र्य मित्रं प्रति पत्रमेकं लिखत।
उत्तरम्

स्थलम्- धर्मस्थलम्
दिनाङ्कः – 04/1/2014

प्रियमित्र,
सादरण प्रणामः
अहमत्र कुशली। भवान् अपि कुशलीति भावयामि। मम अध्ययनं सम्यक् प्रवर्तते। श्वः मम जन्मदिनं भविष्यति। भवान् कृपया भवतः माता-पितृभ्यां सह आगच्छतु।

धन्यवादाः

भवदीयः
उल्लास:

सविधे – सकाशात
वंशी – उल्लासः
द्वितीय पि.यू.सि – द्वितीय पि.यू. सि
रामकृष्णविद्यालयः – मञ्जुनाथेश्वरविद्यालयः
बेंगलूरु – धर्मस्थलम्, मङ्गलूरु

error: Content is protected !!