2nd PUC Sanskrit Textbook Answers Vyakaran समासः

   

Students can Download Sanskrit Vyakaran समासः 2nd PUC Sanskrit Textbook Answers, helps you to revise complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Textbook Answers Vyakaran समासः

अनेकानि नामपदानि मिलित्वा एकं पदं भवति चेत् समासः भवति। प्रथमपदवीपूर्वपाठ्ये, तत्पुरुष द्वन्द्व-बहुव्रीहिसमासाः प्रदत्ता। अस्मिन् वर्षे कर्मधारय-द्विगु-अव्ययीभावसमासाः प्रस्तूयन्ते।

2nd PUC Sanskrit Textbook Answers Vyakaran समासः 1

Compound words are formed by joining together nouns so as to express various relations. Dwandwa and Bahuvrihi compounds were dealt with in the first PUC text book. This year you are going to study Karmadharaya, Dvigu and Avyayibhava. :

1) कर्मधारयसमासः
प्रायः कर्मधारयसमासे उत्तरपदार्थः प्रधानः भवति। एकाधिकरण- तत्पुरुषः एव कर्मधारयः। अर्थात् पूर्वोत्तरपदयोः समाना विभक्तिः भवति। अत्र अष्टौ भेदाः। यथा –

2nd PUC Sanskrit Textbook Answers Vyakaran समासः 2

As “तत्पुरुषः समानाधिकरणः कर्मधारयः” If the two words in the vigrahavakya are in the same case, then it is Karmadharaya. Probably, in Karmadharaya Samasa the second half of the samasa (उत्तरपदार्थ) is prominent.

१) विशेषणपूर्वपदकर्मधारयः
अस्मिन् समासे पूर्वपदं विशेषणवाचकम्, उत्तरपदं च विशेष्य वाचकं भवति ।
उदा- प्रिया चासौ सखी च प्रियसखी।
एवमेव,
नीलानि च तानि उत्पलानि च = नीलोत्पलानि ।
महान् च असौ राजा च = महाराजः।
गम्भीरश्च असौ नादश्च – गम्भीरनादः।
कृष्णः च असौ सर्पश्च = कृष्णसर्पः ।

KSEEB Solutions

२) विशेषणोत्तरपदकर्मधारयः
अस्मिन् विशेषणवाचकं पदम् उत्तरपदमिति विशेषः ।
उदा- नरः च असौ अधमः च = नराधमः।
वैय्याकरणः च असौ खसूचिश्च वैय्याकरणखसूचिः। (खसूचिः – आकाशदत्तदृष्टिः)

३) विशेषणोभयपदकर्मधारयः
अत्र पूर्वपदम् उत्तरपदं च विशेषणवाचकं भवतः ।
उदा- शीतं तत् उष्णं च = शीतोष्णम् ।
हृष्टाश्च ते पुष्टाश्च = हृष्टपुष्टाः (गावः)

४) उपमानपूर्वपदकर्मधारयः
अत्र पूर्वपदम् उपमानवाचकम्, उत्तरपदम् उपमेयवाचकं भवति।
उदा- हिम इव शीतलः = हिमशीतलः।
कुसुमम् इव कोमलम् = कुसुमकोमलम् ।
चन्द्रः इव मुखम् = चन्द्रमुखम्।

५) उपमानोत्तरपदकर्मधारयः
उत्तरपदम् उपमानवाचकं चेत् पूर्वपदम् उपमेयवाचकं भवति।
उंदा- नरः सिंहः इव = नरसिंहः।
पुरुषः व्याघ्रः इव = पुरुषव्याघ्रः।
राजा ऋषिः इव = राजर्षिः।

६) अवधारणपूर्वपदकर्मधारयः
अवधारणं नाम नियमनम् इतरव्यावृत्तिः।
उदा- शोक एव अग्निः शोकाग्निः।
शोकभिन्न अग्निर्नास्ति इत्यर्थः ।
एवमेव,
मुखम् एव चन्द्रः = मुखचन्द्रः।
तपः एव धनम् = तपोधनम्।
विद्या एव धनम् = विद्याधनम् ।

७) मध्यमपदलोपी समासः –
अत्र समस्तपदे मध्यमपदं लुप्यते।
उदा- शाकप्रियः पार्थिवः = शाकपार्थिवः। (अत्र प्रिय इति मध्यमपदं लुप्तम्)
देवपूजकः पुरुषः = देवपुरुषः ।
पर्णनिर्मिता कुटी = पर्णकुटी।

८) सम्भावनापूर्वपदकर्मधारयः
सम्भावना च उत्प्रेक्षा। सं भावयति इति सम्भावना, कल्पयति इति यावत्।
उदा- अश्वत्थ इति वृक्षः = अश्वत्थवृक्षः।
कलिङ्ग इति देशः = कलिङ्गदेशः।
गङ्गा इति नदी = गङ्गानदी।

KSEEB Solutions

2) द्विगुसमासः
“सङ्ख्या पूर्वो द्विगुः।” पूर्वपदं सङ्ख्यावाचकं भवति। समस्त पदं प्रायः एकवचने भवति।

2nd PUC Sanskrit Textbook Answers Vyakaran समासः 3

A compound word with numeral adjective is द्विगु समास.
यथा –
i) पञ्चानां वटानां समाहारः = पञ्चवटी।
ii) चतुर्णां युगानां समाहारः = चतुर्युगम् ।
iii) नवानां रात्रीणां समाहारः = नवरात्रम् ।
iv) सप्तानां पदानां समाहारः = सप्तपदी।
v) पञ्चनां गवां समाहारः = पञ्चगवम् ।
vi) त्रयाणां भुवनानां समाहारः = त्रिभुवनम् ।

विशेष – तद्धितप्रत्यययोगेन क्वचित् रूपम् अन्यथा भवति। सः तद्धितार्थद्विगुः इति कथ्यते।
उदा- षण्णां मातृणाम् अपत्यं पुमान् = षाण्मातुरः (षण्मुखः)
द्वयोः मात्रोः अपत्यं पुमान् = द्वैमातुरः (विनायकः)

3) अव्ययीभावसमासः
अत्र पूर्वपदार्थस्य प्राधान्यम्, अस्मिन् समासे पूर्वपदेन अव्ययेन सह उत्तरपदं समस्यते। समस्तपदं च अव्ययं भवति।
अत्र प्रसिद्धाः अव्ययीभावसमासाः निरूप्यन्ते।
अकारान्तः आकारान्तो वा अव्ययीभावः, अकारान्त-नपुंसक-लिङ्गशब्दस्य एकवचनमिव रूपं भजते।

2nd PUC Sanskrit Textbook Answers Vyakaran समासः 4

An Avyayibhava compound consists of two members, the first of which is, in most cases, an indeclinable and the second a noun. The whole word is treated like indeclinable. Generally, the meaning of the first word is more important, known as ‘Avyayibhava’.
उदा- कृष्णस्य समीपम् = उपकृष्णम् ।
शालायाः समीपम् = उपशालम् ।

इकारान्तः ईकारान्तो वा अव्ययीभावः वारिशब्दस्य एकवचनमिव रूपं भजते।
उदा- शक्तिम् अनतिक्रम्य = यथाशक्ति।
मतिम् अनतिक्रम्य = यथामति।
आकन्याकुमार्याः = आकन्याकुमारि।

KSEEB Solutions

उकारान्तः, ऊकारान्तः, ओकारान्तः वा अव्ययीभावः मधुशब्दस्य एकवचनमिव रूपं भजते।
उदा- वस्तूनाम् अभावः = निर्वस्तु।
वधू वधू प्रति = प्रतिवधु ।
दिने दिने = प्रतिदिनम्
गोः समीपम् = उपगु।

error: Content is protected !!