KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 22 प्रबन्धाः

Students can Download Sanskrit Lesson 22 प्रबन्धाः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 9 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 22 प्रबन्धाः

पीठिका
प्रकृष्टो बन्धः प्रबन्धः इत्युच्यते । निबन्धः इति अस्य नामान्तरम् । नातिविस्तृतः नातिसंक्षिप्तरूपो प्रबन्धः लघुप्रबन्धः इति कथ्यते । प्रबन्धे सरलंनि वाक्यानि अपेक्षितानि । मुख्यतया प्रबन्धाः वर्णनात्मकाः, विचारात्मका:, आख्यानात्मका:, व्याख्यानात्मका:, चेति चतुर्धा विभक्ताः । आभाणकादिभिः प्रबन्धाः आकर्षकाः भवन्ति । एतान् सर्वान् अंशान् मनसि निधाय छात्रैः प्रबन्धाः रचनीयाः ।

प्रबन्धे प्रस्तावना, विषयनिरूपणम्, उपसंहारश्चेति निरूपणक्रमः, अपेक्षितः । प्रस्तावनायां प्रबन्धविषयस्य उपक्रमः, विषयनिरूपणभागे विषयस्य विस्तारः, उपसंहारभागे प्रबन्धविषयस्य सारांशः च भवेत्, प्रबन्धे वाक्यानां ‘परस्परसम्बन्धः आवश्यकः । उदाहरणार्थम् अत्र केलव प्रबन्धाः प्रदत्ताः ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 22 प्रबन्धाः

An essay is a piece of prose writing that gives a complete and clean picture of a particular subject. It will be divided into paragraphs. In each paragraph a particular aspect of the subject is dealt with. An essay include with an introduction, presentation of the subject and the conclusion.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 22 प्रबन्धाः 1

स्वातन्त्र्योत्सवः

भारतीयाः वयमिदानीम् स्वतन्त्रभारते निवासामः । क्रि. श. १९४७ तमे वर्षे अगस्टामासस्य पञ्चदशादिनाङ्के अस्माकं राष्ट्र भारत स्वतन्त्रम् अभवत् । तत् पूर्वम् आङ्ग्लाः द्विशतं वर्षाणि यावत् अस्माकं देशस्य प्रशासनं कृतवन्तः । भारतीयेभ्यः असहनीयं कष्टं दत्तवन्तः । अतः भारतीयाः तेषां विरुद्धम् आन्दोलनमेव कृतवन्तः ।

तस्य परिणामात् भारतीयाः आङ्ग्लशासनात् विमुक्ताः अभवन् । अस्य स्वातन्त्र्यदिनस्य स्मरणार्थं वयं प्रतिवर्षम् उत्सम् आचरामः । देशे सर्वत्र सर्वकारियकार्यालयेषु, शालासु, सार्वजनिकाः च वैभवेन उत्सवमिमम् आचरन्ति । स्वातन्त्र्यसङ्ग्रामे ये देशभक्ताः प्राणर्पणं कृतवन्तः, ये च क्लेशं प्राप्तवन्तः तेषां स्मरणं स्तुतिं च कुर्वन्ति । विविधकार्यक्रमान् आयोजयन्ति । स्वातन्त्र्यवीराणां देशभक्तानां च सन्देशान् पुनः स्मरन्ति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 22 प्रबन्धाः

अस्मिन् दिने राष्ट्रध्वजस्य राष्ट्रगीतस्य च गौरवं समर्पयन्ति । स्वातंत्र्यवीराणां साहसं सम्पर्कमाध्यमेषु प्रसारयन्ति । इदानीं स्वतन्त्रभारषतस्य प्रगतिः अस्माभिः करणीया । कीर्तिः प्रसारणीया । तदैव अस्माकं जीवनं धन्यं भविष्यति । वन्दे भारतमातरम् ।

दूरदर्शनम्

प्रपञ्चे नैके सम्पर्कमाध्यमाः वर्तन्ते । आकाशवाणी, दूरदर्शनम्, वार्तापत्रिका, दूरवाणी, अन्तर्जालम् इत्यादयः. प्रमुखाः. सम्पर्कमाध्यमाः सन्ति । एतेषु दूरदर्शनस्य महत्वं स्थानमस्ति । दूरदर्शनस्य संशोधकः जे.एल, बयाई महोदयः । दूरदर्शने दर्शनं श्रवणञ्च समकालमेव भवति । तस्मात् अद्यत्वे दूरदर्शनं बहुजनप्रियं प्रधानं च सम्पर्कसाधनमभवत् ।

दूरदर्शनद्वारा गृहे एव उपविश्य राज्यस्य राष्ट्रस्य विश्वस्य च विषयाः द्रष्टं श्रोतुं च शक्यन्ते । विविधभाषासु सर्वकारीयवाहिन्यः च भवन्ति । कर्णाटकभाषायां चन्दन, उदय-ईटीवि-कस्तूरी-इत्याद्याः वाहित्यः प्रसिद्धाः एव । ताः बाहिन्यः जनाकर्षाणार्थं विविधकार्यक्रमान् विशेषरूपेण प्रसारयन्ति । केचन धारावाहीरूपेण प्रसार्यमाणाः कार्यक्रमाः प्रतिनित्यं वीक्षकान् आकर्षयन्ति । दूरतर्शने चलचित्रम्, सन्दर्शनम्, प्रतिभाप्रदर्शनकार्यक्रमाः, सामाजिककार्यक्रमाः. अपि प्रसार्यन्ते । एवमनेन न केवलं मनोरञ्जनम् अपि तु बुद्धिविकासमपि भवति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 22 प्रबन्धाः

दूरदशीने प्रसार्थभाणाः केत्वन कार्यक्रमाः छात्राणां युवकानां च मनसि दृश्यरिगामं जनयन्ति । निरन्तरं दूरदर्शनवीक्षणेन आलस्यं नेत्रदोषादिकं च भवितुमर्हति । तस्मात् लाभालाभौ विज्ञाय दूरदर्शनस्य उपयोगः कर्तव्यः ।

गणराज्योत्सवः

भारतीयाः प्रतिवर्ष बहून् उत्सवान् आचरन्ति । तत्र केचन उत्सवाः धार्मिकाः अन्ये केत्वन राष्ट्रियाह । राष्ट्रियोत्सवेषु गणराज्योत्सवोऽपि अन्यतयः । जनवरिमासस्य षड्विंशतितमे दिनाङ्के प्रतिवर्ष रााज्योत्सवः आचर्यते ।

अस्माकं राष्ट्र पूर्वं पराधीनम् आसीत् । आङ्ग्लाः भारतीयेभ्यः असहनीयं कष्टं यच्छन्ति स्म । तस्मात् भारतीयः तेषां विरुद्धम् आन्दोलनं कृतवन्तः। तस्य परिगामात् क्रि.श. १९४७ तमे वर्षे अगस्ट् मासस्य पञ्चदशदिनाङ्के भारतं स्वतन्त्रमभवत् । स्वतन्त्रभारतस्य नूतनं संविधानं क्रि.श. १९५० तमे वर्षे जनवरिमासस्य २६ दिनाङ्के अनुष्ठितमभवत् । क्रि.श. १९३० तमे वर्षे जनवरि, मासस्य २६ दिनाङ्के लाहोरनगरे एकमधिवेशनमभवत् । तत्र देशं परकीयेभ्यः विमोचयितुं प्रतिज्ञा कृता आसीत् । तद्दिनं “स्वाधीनतादिवसः” इति प्रतिवर्षम् अचर्यते स्म । स्वातन्त्र्यानन्ताम् अस्मिन् दिने एव नूतनसंविधानं स्वीकृतम् । डा । अम्बेडकरमहोदयः संविधानरचनासमितेः अध्यक्षः आसीत् ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 22 प्रबन्धाः

गणराज्योत्सवदिने सर्वत्र देशे राष्ट्रध्वजारोहणं कृत्वा ध्ववन्दनं कुर्वन्ति । प्रतिराज्यं राजधान्याम् अन्यत्र च पथसञ्चलनम् आकर्षकरूपेण प्रचलति । विभिन्नक्षेत्रेषु विशिष्टसेवां कृतवट्भ्यः गण्येभ्यः प्रशस्तिः प्रदीयते ।

जनसङ्ख्यास्फोट:

अल्पकाले एव जनानम् अनियमिता वृद्धिरेव जनसङ्ख्यास्फोटः इत्युच्यते ।

कारणानि – एकविंशतिशतकेऽस्मिन् अपि बहुत्र दृश्यते बाल्यविवाहः । वैद्यकीयविज्ञानस्य प्रगत्या मरणप्रमाणां न्यूनं जातम् । अज्ञानेन अन्धः श्रद्धया च नैके जनाः सन्ताननियन्त्रणं च जानन्ति नाङ्गीकुर्वन्ति च । इतरेनेशेभ्यः आगतानाम् असङ्ख्याकानाम निराश्रितानां कृते आश्रयं दत्तं भारतेन । जनसङ्ख्यानियन्त्रणे अनासक्तिः दृश्यन्ते केषुचित् जनेषु ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 22 प्रबन्धाः

परिणामाः – देशस्य प्रगतये निर्मिताः समस्तयोजनाः विफलाः भवन्ति । जीवनावश्यकवस्तूनाम् अभाव न्यूनता वा भवति । अरण्यानां विनाशः, कृषिभूमिनाशः, परिसरप्रदूक्षणं च प्रवर्धते । वञ्चनं, हननं, भ्रष्टाचारः, इत्यादिसमाजविरोधीनि कार्याणि सम्भवन्ति । बाधन्ते च जनान् निरुद्येगः, निरक्षरता, अनारोग्यं, दारिद्रयम् इत्यादिसमस्याः ।

निवारणोपायाः – जनसङ्ख्यास्फोटस्य दुष्परिणामान् अधिकृत्य सर्वेषां कृते जनसङ्ख्याशिक्षणं प्रदातव्यम् । बाल्यविवाहस्य प्रतिकूलविषये जनजागरणं करणीयम् । कुटुम्बयोजनाशसनम् अशेषभारतीयानाम् अन्वितं भवेत् । प्रसारमाध्यमद्वारा जनसङ्ख्यानियन्त्रणसस्य प्रचारः करणीयः । एवञ्च जनानां मन:परिवर्तनसमर्थाः कार्यक्रमः भवेयुः ।

error: Content is protected !!